पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३३ पद्धतिः]
१४३
भिक्षाटनकाव्यम्

एका शशाङ्ककिरणोपनिपातभीत्या
वातायनान्तरविधा न कृतप्रयत्ना ।
आमीलनव्यवहृतेन्दुकरप्रयत्ना-
ललक्ष्म्या सरोजवसतिं मनसा निनिन्द ॥ ११ ॥
स्पष्टं मुहुर्भुवनजालकृतप्रवेशै-
रिन्दोः करैर्विरहिणी व्यथयांचकार ।
स्पष्टं जगत्प्रकृति राजति कामिनीना-
(१)मङ्गं मनस्थितिमनाकलयान्करण ॥ १२ ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये चन्द्रोदयपद्धतिर्द्वात्रिंशतिः ।

त्रयस्त्रिंशी पद्धतिः ।

चन्द्रोदये विरहविह्वलमानसानां
या निर्गताः फणितयो वदनाद्वधूनाम् ।
माधुर्ययोगपुनरुक्तसुधान्वितानां
तासामिहास्मि कथनेन विदग्धमन्यः ॥ १ ॥
किं कृत्यमद्य सखि पश्य जगत्समस्तं
व्याप्नोति सान्द्रमपहृत्य निशाप्रकारम् ।
त्रैलोक्यसंहरणकर्मणि कामशत्रोः
कोपाट्टहास इव कोऽपि शशिप्रकाशः ॥ २ ॥
एतस्य चन्द्रहतकस्य कठोरभावं
सख्यस्तदेव गमयेति विकल्पमेव ।
अम्भोनिधेरखिलरक्षणजागरूको
जग्राह यत्पशुपतिर्गरलेन साकम् ॥ ३ ॥
अन्येषु जन्तुषु सुधासहजत्वमिन्दो
व्यक्तीकरोषि किरणैरिति शीतपातैः ।
अस्माद्रतेषु तु पुनर्विधिवञ्चितेषु
तैर्दुःसहैर्गरलसोदरभावमेव ॥ ४ ॥