पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४२
काव्यमाला ।

द्रोही न वा खलु ममेति जनं विभित्सोः
कामास्त्रतः परगवीगणनां चकार ॥ ४ ॥
ज्ञातो जनैर्विरहतापजुषः परस्य
नेत्रद्वयस्य नलिनस्य च ...ति भेदः ।
पद्मेषु चन्द्रकिरणैर्मुकुलीकृतेषु
यज्जागरूंकमभवन्निशि नेत्रयुग्मम् ॥ ५ ॥
चूडामणे पशुपतेरिति जृम्भितास्ता(?)
तापावहो विरहिणामिति जातभीतः ।
चन्द्रस्य काचिदुभ(द)ये विधुरा निजाक्ष्णो-
रुन्मीलनेऽपि न शशाक निमीलनेऽपि ॥ ६ ॥
भिक्षाटनं पशुपतिः कृतवानिहेति
यां हातुमह्नि गलितेऽपि हि न क्षमाभूत् ।
तां वीथिका निशि मयूखभयाद्विहाय
छायेव कापि शनकैर्वसतिं विवेश ॥ ७ ॥
कस्याश्चिदीशविरहव्यथिताशयायाः
कामं वदन्तु मुखमेव हि चन्द्रकान्तम् ।
तस्या दृशो युगलमप्युदये हिमांशो-
र्निर्दिश्यमानबहलोदकमिन्दुकान्ति(न्त)म् ॥ ८ ॥
यावान्दिनेशपतने विरहातुराया-
स्तावान्हिमत्विषि मनागुदिते वितापः ।
पातो यथा परहिताय यथार्तिभाजां
खेदाय नूनमुदयो मलिनाशयस्य ॥ ९ ॥
प्लुष्टिर्मनाविरहिणीस्तनमिन्दुपातैः
काचिद्ददौ प्रियसखीमुखमारुताय ।
पारब्धमन्यदपरं पलितेक्षणेन
जज्वाल हन्त हृदये मदनाग्मिरस्याः ॥ १० ॥