पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३२ पद्धतिः]
१४१
भिक्षाटनकाव्यम् ।

दाक्षिण्यवानिति जगद्विदितोऽसि तस्मा-
न्मा जातु जारसरणीं व्रज नीचसेव्याम् ॥ १३ ॥
पूर्णेन्दुपूरमरुदत्र हिमाम्बुगर्भो
गन्धोऽयमस्य मुकुलस्य विजृम्भमाणः ।
नाम प्रदोष इति दोषसमग्रभावा-
त्स्रष्टा यथार्थमकरोद्रजनीमुखस्य ॥ १४ ॥
धन्या हि सा भगवती दिवसान्तसंध्या
यामं गतां भुवि सुवीक्ष्य पिनाकपाणिः ।
विश्लिष्टबन्धनजटाभरणस्य हर्षा-
गौर्याः समक्षमपि कृ(नृत्यति वीतशोकः ॥ १५ ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये प्रदोषोक्त पद्धतिरेकत्रिंशतिः ।

द्वात्रिंशी पद्धतिः ।

कंदर्पशासनविलविजनेषु रोषा-
द्रूपादिवेन्दुमुदयस्थमवेक्ष्य ताग्रम् ।
जज्ञे हरेण विरहे वनिताजनस्य
यच्चेष्टितं तदधुना कथनीयमास्ते ।। १ ।।
उष्णायमानमुदयारुणमिन्दुबिम्बं
काचिद्रवे(?)विरहिणी न शशाक भत्तुम् ।
तस्या विवेकमतिदायितया तदानीं
तस्योपयोगमहितं शशलाञ्छनत्वम् ।। २ ॥
अन्या बिहाय मदनातुर(?)जीविताशा
जातस्पृहा मरणशब्दितमङ्गलाय ।
लब्धः शिवो भवतु मे परजन्मनीति
चन्द्रातपे विरहिणी सहसा पपात ॥३॥
आलोक्य काचिदुदयारुणमिन्दुबिम्बं
विश्लेषिणामविषहं शिशिरं परेषाम् ।