पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४०
काव्यमाला ।

आसन्नचन्द्ररमणप्रणयावि(व)लिप्ता
कामव्यथां मनसि कैरविणी करोतु ।
अम्भोजिनि त्वमपि संप्रति वल्लभेन
विश्लेषिणीमयि(घि) कथं रुजमादधासि ॥ ७ ॥
दग्धुं जगत्रयमयं किल कोऽपि वह्नि-
रुज्जृम्भते वियति सांध्यमहश्छलेन ।
इत्थं न चेत्किमपि संप्रति वारि विप्राः
सश्रद्धमञ्जलिभिरूर्ध्वममी क्षिपन्ति ।। ||
यस्य प्रयाणसमये प्रकटानुरागः
सोऽवश्यमेष्यति पुनः सवितेति सुप्तिम् ।
अम्भोजिनी व्रजति सुप्तिकथा कथं स्या-
निःसङ्ग एव गिरिशे मम भक्तिमत्याः ॥ ९ ॥
सास्वे1(?) स वासरपतिर्दिशि पश्चिमायां
तेजःक्षयं मयि वशेन बभूव रक्तः ।
सा हन्त पातयति सा तमियं वराङ्गी
कस्यापदे जगति नान्यतरानुरागः ॥ १० ॥
मन्येऽहमित्थमुदयारुणचन्द्रनामा
स्वीकारिणः प्रलयकालहुताशनस्य ।
धूमोऽयमग्रजनितस्तिमिरच्छलेन
विश्लेषिसार्थनयनाश्रुनिपातहेतुः ॥ ११ ।।
एकस्य रात्रिमुखवेषविषद्रुमस्य
संजातसांध्यकिरणारुणपल्लवस्य ।
आगामिपूर्णशशिबिम्बमहाफलस्य
तारागणं विगणयामि नवप्रसूनम् ॥ १२ ॥
अत्युच्छ्रितादनिल ते मलयात्प्रसूति-
र्नित्यं यतः परिचयं सुमनोभिरेव ।