पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२६ पद्धतिः]
१२७
भिक्षाटनकाव्यम्


यो लम्बितो विरहधर्मितया कदाचि-
दुद्यानचूतविटपो मधुसंभ्रमश्रीः ।
मानप्रवालकुसुमेक्षणमेव जात-
स्पर्शोऽपि कामुकजनैः कुरुते विपत्तिम् ॥ १४ ॥ .
अङ्गारसंचयमतिर्विरहातुरायाः
पुष्पेष्वजायत पलाशमहीरुहस्य ।
सा स्थापितैव मधुपैः पुनरेव लीनैः
किंचित्प्रशान्त्युचितकार्ष्ण्यधियं विधाय ॥ १५ ॥
1मा पुष्पितोऽयमिति नैव चकार काचि-
दुद्यानभाजि पदघातमशेषयूनि ।
न्यकारकृत्यमपि नाभिलपन्ति कर्तुं
प्रायः प्रसादविषयादपरत्र नार्यः ॥ १६ ॥
कामास्त्रमेतदिति जातरुषा लतासु
विश्लेषिणी सुमनसा हरणे प्रवृत्ता ।
कामास्त्ररक्षकजनैरिव सद्य एव
सैषा न्यरोषि(धि) कृतहुंकृतिभिर्द्विरेफैः ॥ १७ ॥
स्निग्धेन कोकिलरुतेन नवोद्गतेन
चूताङ्कुरेण पवनेन च मालयेन ।
कालं वसन्तमवलोक्य जनोपकण्ठे
कालं वसन्तमपरा कलयांचकार ।। १८ ।।
आलम्बिता विरहधर्मितया कयाचि-
त्क्लान्तप्रवालकुसुमाभवदाम्रशाखा।
तां वीक्ष्य तादृशदशां प्रणयिन्यथास्यां
दीर्घं स्वकीयमजुगुप्सत बन्धुभावम् ॥ १९ ॥
आमूलंपुष्पितमवेक्ष्य पलाशमन्या
विश्लेषिणी ज्वलितबुद्धिरिमं शशाप ।.