पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२५ पद्धतिः]
१२३
भिक्षाटनकाव्यम्

यः कामदेहदहनाद्विरसः प्रसिद्ध-
स्तस्मै कुतः स्पृहयसि त्रिपुरान्तकाय ।
कोऽन्यः क्षमेत मदनुग्रहमन्तरेण
रक्षां विधातुमिव मन्मथपीडितानाम् ॥ ४ ॥
आश्लेषणेषु कथमिच्छसि शंकरस्य
भस्मक्रयं सुरभिणा कुचकुङ्कुमेन ।
न्यूनार्धमेव भसितादपि कुङ्कुमं त-
दर्धस्थितिः परमभिज्ञम(कृ)तैकमन्त्रात् ॥ ५ ॥
येनार्धगात्रमनुरागवशाद्वितीर्णं
कस्यैचिदेनमधिकामर(य)से किमर्थम् ।
चक्रे ध्रुवं स पुनरर्धशरीरदाना-
दन्याङ्गनाप्रणयसंगमनाभ्यनुज्ञाम् ॥ ६ ॥
भूलोकभृङ्गवनिता यदि दिव्यपुष्प-
माघ्रातुमिच्छति तथा हरसंगमस्ते !
अस्माकमक्षिविषयः सहसैव योऽभू-
कि संभवेन्न विरहेण समागमोऽपि ॥ ७ ॥
पाणिं हरेण यदि वाञ्छति गृह्यमाणं
भीरु त्वयाप्युरगकौतुकमेव बद्धम् ।
सत्यं तदेव दृढकौतुकबन्धिने(न्धनं) मे
व्यर्थः करे शिथिलकौतुकतन्तुबन्धः ॥ ८ ॥
भर्तारमिच्छसि शिवं यदि तेन सार्धं
वस्तव्यमालि नियतं पितृकारणे (कानने)षु ।
एणीदृशां हृदयवल्लभसंनिधाने
सौधस्थलस्य विपिनस्य च को विशेषः ॥ ९ ॥
हित्वा तपांसि परुषाणि हरो दुरापः
कर्तुं क्षमे न खलु तावकमन्तमेतत् ।