पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२२
काव्यमाला ।

आत्मीय एव सति धार्यदृशां प्रपन्ने
कस्तस्य धारणमृते परधारणाय ।
यत्खेदपाण्डरमथा(?)मुखपद्ममेका
हस्तोदकैर्विरहिणी न तु केलिपद्मम् ॥ ११ ॥
कस्याश्चिदश्रुसलिलेषु हिताभिषेकं
शोकानलेन सदयज्वलितेन तप्तम् ।
गौरीपतेरुपरि लब्धुमिव प्रदेशं
तीव्रं तपः पृथुकुचद्वयमाचचार ॥ १२ ॥
नालंकृतौ न शयने न मिथः प्रलापे
न क्रीडनेषु न च भोजनपानयोर्वा ।
आस्थावती शिवसमर्पितचेतनैका
रागो निरत्ययसुखोऽन्यविरक्तिहेतुः ॥ १३ ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये विरहिण्यवस्थापद्धतिश्चतुर्विंशतिः ।

पञ्चविंशी पद्धतिः ।

निष्प्राप एव गिरिशे विहितस्पृहाणां
वामभ्रुवामतिविभेदनकारणेन ।
आप्तो जनो रहसि यानि जगाद तानि
प्रत्यूषिरै (?) सह वदामि पुनस्तदीयैः ॥ १ ॥
इन्दीवराक्षि विषमाक्ष इति प्रसिद्धे
मा त्वं कृथाः पुरविरोधिनि पक्षपातम् ।
वैरूप्यमेव सखि तस्य चिराय काङ्क्षे
येनायमन्यवनिताजनवर्जनीयः ॥ २ ॥
कण्ठे हरस्य न वरं परिरम्भणं ते
हारोरगेण न कदापि यदेष शून्यः ।
त्राता पयोधिगरलादपि येन लोका-
स्त्रातुं न मामहिविषातिकिमयं समर्थः ॥ ३ ॥