पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२४ पद्धतिः]
१२१
भिक्षाटनकाव्यम्

कस्याश्चिदेव न जहौ करभूषणत्वं
क्रीडाशुकः पठितशंकरनामधेयः ॥ ४ ॥
श्वासानिलश्च नयनोदकनिर्गमश्च
जातागसी(सौ) विरहिणीकुचयोरभूताम् ।
आक्षेपणेन लघुनो वरणांशुकस्य
लोपेन च प्रचुर चन्दनकर्दमस्य ॥ ५ ॥
विश्लेषदुर्बलमकारणपाटलेन
संसृज्यमानमपि गण्डतलं करेण ।
आपाण्डुरच्छवि बभूव मृगेक्षणायाः
संसर्गजा इति मृषैव गुणाश्च दोषाः ॥ ६ ॥
संमानपात्रमहमस्म्यमृतांशुमौले
या सत्यमित्यधिकचिद्धितकौतुकैव ।
(2)1अन्या वधूरपहरात्परिकर्शनेन
साकं शशाङ्ककलया सममेव धत्ते ॥ ७ ॥
कस्याश्चिरग(रं ग्ल)पितचम्पककान्ति गात्रं
जातं हरेण विरहे घनसारगौरम् ।
(21)निःशृङ्खलप्रभृतिभिस्तदसंनिधाने
व्याप्तं मनोभवयशोगिरिवा(रा)बभासे ॥ ८ ॥
दृष्टे पुरा पुरविरोधित(नि) काचिदङ्गै-
र्या कण्ठकोगतिमयीं(?) ह रतिं प्रपेदे ।
तान्नैव जातु विरहौ(?) विरहेऽपि तस्मि-
न्नन्तर्हितेऽपि सवितर्यरविन्दनै(तै)व ॥ ९ ॥
तुल्या शशाङ्ककलयेति मृगेक्षणायाः
स्थौल्यातिरेकमणितावपरः प्रकारः ।
अङ्गानि शंकरवियोगभुवां तनिम्ना-
मध्यङ्गसाम्यमितराण्यपि शोच्यमापुः ॥ १० ॥