पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११४
काव्यमाला ।

(?)लोभे महालयमहो यदभूदमुप्या (पुण्य)-
प्रायैर्निजैः सह पुनर्भवनप्रवेशः ॥ १२ ॥
यस्त्वां क्षिणोति विशिखैः स्वशरण्यभूता-
मेवं सदा सुमुखि तेन समः स मारः ।
शाखां स्वयं समधिरुह्य महीरुहस्य
यस्तां छिनत्ति निशितेन परश्वधेन ॥ १३ ॥
यन्न्याय्यवर्त्मगमनं निपुणं त्वयासी-
लज्जा च यावदपवादभयं त्वदीयम् ।
तत्सर्वमालि कथमेकपदे न(नि)विष्टं
सर्वंकषः स खलु तत्रभवाननङ्गः ॥ १४ ॥
बालामिमां हतमनोभव पुष्पवाणै-
र्मा विध्य संप्रति वदामि तथैव पथ्यम् ।
(?)अस्यामरस्य विरतं सवतीन्दुमौलि-
स्मर्ता न किं भवसि तेन पराजयं ते ॥ १५ ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये बन्धुवचनपद्धतिरेकविंशतिः ।

द्वाविंशी पद्धतिः ।

यश्चे(च्चे)ष्टितं प्रकटितं पुरसुन्दरीणां
भूयो विजेतरि पुरामनुरागबन्धम् ।
प्रस्तुत्य तानि विरहोज्ज्वलमन्मथानि
संपादयामि विदुषां श्रवणातिथेयम् ॥ १ ॥
संतर्जिता गिरिशमालपसीति मात्रा
काचित्रपानतमुखी भुवमालिलेख ।
रेखा तदाकृतिरभूत्किमियं विधत्तां
चित्तानुसारि वचनं च विचेष्टितं च ॥ २ ॥
पार्श्वं 1प्रजाव(?) गिरिशस्य निजा(?)न्धकारे
मा ते विषाद इति जीवसखीजनेन ।