पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२१ पद्धतिः]
११३
भिक्षाटनकाव्यम्

अङ्गेष्वयं धवलिमैव यदङ्गरागो
दत्तः शिवेन सखि वृज्ज...(2)तैष पोषः ।
भैक्षं प्रदातुमनघाय यदोद्यमस्ते
तूष्णीं स्थिता सुकृतभङ्गभयादपूर्वम् ॥ ६ ॥
धत्से तदद्य मम पापमभूत्तवेत्थं
यत्संशयस्थितिरियं मदुपेक्षयैव ।
सर्वोऽपि वक्ति जन एव शिवाभिधानं
भस्मावलीं प(प्र)ति यथेप्सितमङ्गकेषु ॥ ७ ॥
तन्मे सुता विदधती परिहासपात्रे
प्रायेण कामुकजनस्य गुणोऽपि दोषः ।
धुर्धूरकं शिरसि नैव सुगन्धि पुष्पं
भस्म स्तने न तव कुङ्कुमचन्दनादि ॥ ८ ॥
यत्ने(त्ते) सुता मम किमन्यदियं वृषाङ्के
प्रेम्णा भविष्यति भुजंगमभूषणापि ।
यस्य क्षणं स्मरणमेव सुदुस्तराणां
सर्वापदामुपशमाय वदन्ति वृद्धाः ॥ ९॥
तत्सत्यमेव खलु यन्नवबन्धुजीव-
शोभाहरं सखि हरायनमामनन्ति ।
तस्मान्नि(द)तीव रतिमद्य दधासि तेन
शोभागतैव तव शंसयितुश्च जीवः ॥ १० ॥
दृष्ट्वापि तं शिवमियं पुनरेवमार्ता
प्रायेण पुण्यमपि पुण्यवतां फलाय ।
तत्पादपद्मयुगलस्मृतिमेव सर्वे
सर्वव्यपायशमनीति वदन्ति वृद्धाः ॥ ११ ॥
मेधं विना स्थितिमगान्न सरित्तथैव
बाला वृषाङ्कमिति भीतिरभूत्पुरा मे ।