पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/११७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२० पद्धतिः]
१०९
भिक्षाटनकाव्यम्

विद्वज्जनो जगति येन पितामहेन
भिक्षाप्रतिग्रहणपात्रमकारि सर्वः ।
तस्योत्तमाङ्गमपि शंकरपाणिपद्मे
भिक्षाप्रतिग्रहणपात्रमहो बभूव ॥ १४ ॥
बाणाहवे मुरजिता विजितः पुरारि-
रित्येव विश्वगदितः सखि भूतवादः ।
सत्या स एव स यतः प्रभवो लयानां
भूत्यै पराक्रमणकृत्यमतीव हास्यम् ॥ १५ ॥
शंभो पुरा यदभवन्मदनेन साक-
मद्यापि वैरमनुवर्तत एव किं तत् ।
गौर्या सहैव कृतविग्रहसंधिना वा
पुष्पायुधो विकृतविग्रहसंधिरेव ।। १६ ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये चरितोपलालनपद्धतिरेकोनविंशतिः ।

विंशी पद्धतिः ।

गौरीवरस्य पदपातपवित्रपांशुं
रथ्याः कथंचिदपहाय शनैः प्रवृत्तैः ।
गेहे प्रवेशचरितैः पुरमानिनीनां
वाणीमिमां वयममी चरितार्थयामः ॥ १ ॥
काचित्सखीविहृतपथ्यवचोङ्कुशानां
पातैः प्रवृत्तिविपरीतशिरोविधूतिः ।
पार्थस्थितैः परिजनैः परिणुद्यमाना
कृच्छ्रेण दुष्टकरिणीव निकेतमाप ॥ २ ॥
अच्छिन्नया श्रुति(?)परम्परयैव वीर्यां
गौरीपतिं विहितसन्निधिमीक्षमाणा ।
सर्वास्वपीह निलयं प्रति कामिनीषु
यातासु कापि च न कापि गृहप्रवेशम् ॥ ३ ॥