पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/११५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९ पद्धतिः]
१०७
भिक्षाटनकाव्यम् ।


एकोनविंशी पद्धतिः ।

आत्मीयनेत्रपथलम्बिनि वृत्तनाथे
रथ्यागता हरवियोगविषादशान्त्यै ।
वामेक्षणा जगदुरस्य कथाप्रसङ्गा-
दाविष्कृतादृतरसानि मिथो वचांसि ॥ १ ॥
कस्मादयं सखि करेण सिभक्ति शंभु-
र्भिक्षाटने विधिशिरोमयमेव पात्रम् ।
कार्या कदाचिदपि नार्थितकालहानां
दीर्घायुषामपि दशेयमितीव शास्ति ॥ २ ॥
कोऽन्यो ददाति हिमसानुमतस्तनूनां
मारद्रुहे च जगति श्वशुरद्रुहे च ।
तं लब्धुमद्रितनयामपहाय कन्यां
का वा करोति सुकुमारतनुस्तवांसि ॥ ३ ॥
कैवापरा गिरिसुतामपहाय कन्यां
कामद्रुहं जगति कामयती वृषाङ्कम् ।
तस्याः पितुर्हिमवतः श्वशुरद्रुहेऽस्मै
कोऽन्यो ददाति तनयामपहाय भीतः ॥ ४ ॥
अभ्यर्थितः सुरगणेन........(?)विशङ्क(1)
चक्रे हरः किमिति तीव्रविषोपयोगम् ।
मन्येऽहमुक्तमगुणा गणयन्ति पथ्यं
याच्या विहङ्गकरणाद्विषपानमेव ॥ ५ ॥
नेत्रानलार्चिषि विभोर्मदनेन साकं
प्लोषोत्सवं किमिति नैव रतिः प्रपेदे ।
सा तत्र गन्तुमकरोदधभाग्यहान्या
तस्या बभूव नयनोदकमन्तरायः ॥ ६ ॥
कामप्रिया मदनमेव विभोर्वितन्वं
दग्धस्तदा किमिति नैव हुताशनेन ।