पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
रामचापस्तवः ।

श्रीमच्चामरबद्धमृद्धसुषुमज्यावल्लिकावेल्लितं
दध्यां बुद्धिमहं तु राक्षसचमूहन्तुः प्रणन्तुं धनुः ॥ १२ ॥
धावंधावमबन्धगन्धगजवद्विन्ध्याद्रिवन्ध्याटवी-
कल्पेऽप्यत्र जगत्त्रये सर इव स्नातुं ममेदं मनः ।
नन्वन्विष्यति धन्व मन्वभिजनोत्तंसस्य हंसच्छद-
स्वच्छोद्गच्छदभीशुपेशलशिरोबद्धोच्चलच्चामरम् ॥ १३ ॥
धर्मे निर्मलमाप्नुयामिति तथा विन्देय मन्देतरा-
नर्थानित्यहमत्यये दिवि वधूर्भुञ्जीय मञ्जूरिति ।
ब्रह्मानन्दविधायिनीर्मम पुनः प्रामाण्यवाचामपि
ध्यातव्ये रघुनन्दनस्य धनुषि त्रेधा मनो धावति ॥ १४ ॥
नाहं यष्टुमलं भवामि न घटे दातुं धनान्यर्थिनां
का शक्तिर्मम दृश्यते तपसितुं दुर्निग्रहे मानसे ।
आत्मज्ञानमवाप्नुयामिति तथाप्याराधयेयं गिरा
वाराशिस्मयघस्मरास्त्रमहसो वीरस्य सारं धनुः ॥ १५ ॥
मातुर्गर्भकुटीरमर्भकतनुः संप्राप्य कं प्रायशो
नो जन्मानि कियन्त्यगाहिषि कियदुःखं च नाज्ञासिषम् ।
दिष्टया संप्रति जायते मम नृणां जन्मात्ययध्वंसने
चापे चन्द्रवतंसचापमथितुर्देवस्य भावः स्थिरः ॥ १६ ॥
वल्गन्मन्दरशैलमूलमुखरक्षीरोदपूरोदर-
क्षिप्तानर्गलनिर्गलन्नवसुधामाधुर्यधुर्या गिरः ।
निर्गच्छन्तु निसर्गवेगविधुतस्वर्लोककल्लोलिनी-
गर्वाः शर्वधनुर्विमर्दनधनुःस्तोत्राय वक्रान्मम ॥ १७ ॥
कालोन्मीलदमन्दकुन्दमुकुलस्पर्धानिबद्धादर-
प्रौढोदारपरप्रबन्धरचनापाण्डित्यनाडिंधमम् ।
अस्तु प्रस्तुतदुर्घटस्वमहिमस्तोत्रस्य मे त्रस्यतः
खेदच्छेदकृतादरं भगवतश्चापं रुचा बन्धुरम् ॥ १८ ॥