पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१०९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६ पद्धतिः]
१०१
भिक्षाटनकाव्यम् ।

प्रते(?) बलिग्रहणकर्मणि कापि बाला
यातुं प्रवृत्तमवगम्य पिनाकपाणिम् ।
एष्यं निशाघनतमस्यभिसर्तुमीशं
चूडेन्दुयाचनपरा चिरमन्विधा(या)य ॥ ९॥
एका रहस्यभिमतं किल वक्तुकामा
दीर्घां विभोरनुगतिं विदधे मृषैव ।
सा किं करोतु सकलास्वपि चात्मनैव
तुल्याभिलाषगमनासु विलासिनीषु ॥ १० ॥
एषा भविष्यति मनोभवसायकाना-
मद्यैव प(पा)त्रमिति तां सहसा विहाय ।
तस्याश्चिदीशमपयान्तमियाय चेतो
नैवाप्तिरापदि फलाय नपुंसकेन ॥ ११ ॥
काचित्प्रयान्तमनुगम्य पतिं जवेन
बाला पदानि कतिचिन्न पुनः शशाक ।
(?)मुक्तास्त्वया दिशमनेन गतामवेक्ष्य(?)
श्वासानिल(ला)स्तमनु दूरपथा(?)नुजग्मुः ॥ १२ ॥
(१)नास्मादवाप्य नु मतिन्नसकी चलध्वा
संघाधिका न च तथाभ्युदितोऽस्य देशः(?) ।
काचित्तथाप्यनुजगाम हरं प्रयातं
नत्वापि हन्त गणना मदनातुराणाम् ॥ १३ ॥
संतर्जिताभि(पि) गुरुभिः कृतसत्व(सान्त्व)नापि
जीवोपमैः परिजनैरनुयाचितापि ।
जातैश्च कापि हसिताप्यनुशोचितापि
मध्यस्थितैर्न गिरिशानुगतिं मुमोच ॥ १४ ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्येऽनुगमनपद्धतिः षोडशी ।