पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१०८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१००
काव्यमाला ।

पश्चादपश्यदपराङ्गमनुव्रजन्ती
सर्वाङ्गवीक्षणमहोत्सवभाग्यहीना ॥ २ ॥
आन्दोलिताममरसिन्धुतरङ्गपातै-
रिन्दोः कलां शिरसि कापि विलोक्य शंभोः ।
एषा पतिष्यति पतिष्यति संप्रतीति
तत्स्वीकृतव्यवसितात्तमनु प्रतस्थे ॥ ३ ॥
1तस्या द्विदन्तिकसखीभिरुपेक्षितायाः
सख्यो न वा बत हरानुगमे बभूवुः ।
एका दृढा व्यवसितिर्महती वरान्या
काचित्कठोरगुरुवर्गनिषेधशङ्का ॥ ४ ॥
काचित्स्वबन्धुजनमेकपदे विहाय
रथ्यासमागतमनाकलितान्ववायम् ।
(।)भिक्षां विरूपनयनं वनितां विहाय
कामश्चिरं प्रणयमाहव (वह)ति क्षणेन ॥ ५ ॥
काचिज्जनस्य पुरतो मनसाध्यवस्य
मुग्धेन्दुचूडमनुगन्तुमुदश्रुनेत्रा ।
सा युध्यतोरथ जयार्थतयार्गलाभू-
दुद्रिक्तमानमदनद्विपयोर्मुहूर्तम् ॥ ६ ॥
गच्छन्तमन्तकविपक्षमनुव्रजन्ती
धात्र्या कथंचिदपि कापि निवारिताभूत् ।
चक्रेऽथ केवलमियं मनसा नु यात्रां
वल्ली यथा सुमनसा मलयानिलस्य ॥ ७ ॥
गौरीपतेरनुगमेन किमित्युदीर्य
पूर्वं पुनस्तु वचनैर्विहितानुयात्राम् ।
तच्चित्रमाप्तवचनैर्वनितार्थमूढै-
रित्यात्मनः प्रियसखीमपरा चुकोप ॥ ८ ॥