पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१०४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९६
काव्यमाला ।

तत्संनिधावपि निमील्य निमीत्य चक्षु-
र्यत्नेन भावितदवीक्षणसाम्यशिक्षाम् ॥ ८॥
तावत्रयात्वरितपार्श्वगतिं मृ(तिर्मु)गाक्ष्या
तावच्छलादसकलानि विलोकितानि ।
वीथीपरिभ्रमणकेलिविपक्षभूतो
यावत्प्रभोर्निंगमने जनिता(ना)भिलाषः ॥ ९ ॥
अन्तर्ज्वरस्व (श्व)सितमूर्ति(मि)तमेव भूया-
न्गण्डस्थले धवलिमा दृशि चान्य(बाष्प)पूरः ।
जाते हरेण सुदृशो विरहप्रतापा-
त्पूर्वं फलं तदनु हेतुरहो विचित्रम् ॥ १० ॥
किंचिन्निरर्गलविनिर्गतबाष्पपूरै-
राशङ्कितं हरवियोगहरं सखीभ्यः ।
दृष्टिर्ममेयमलकच्युतपुष्परेणु-
स्पृष्टेत्यपृष्टवचनैः प्रकटीचकार ॥ ११ ॥
प्रस्थानमिन्दुशकलाभरणस्य काचि-
दासन्नमेव विगणय्य भवेन मुग्धा ।
आदर्शमापतिततत्प्रतिबिम्बहृद्य-
मङ्गेष्वनङ्गविवशेषु मुहुर्न्यधत्त ॥ १२ ॥
भग्नस्य शङ्खवलयस्य ममैतदेक-
मर्थं निराय(प्य) मृगये तदिह द्वितीयम् ।
यन्मूर्ध्नि ते कुटिलभास्वरमेतदद्य
संदर्शयेति वनिता गिरिशं रुरोध ॥ १३ ।।
स्वच्छन्दरागरसिकस्य गतिर्वि(गति नि)रोद्धुं
शक्तास्मि ते मलयमारुततुल्यवृत्तेः ।
अस्याः स्मरार्तिरियतीति सखी प्रदर्श्य
प्रस्थायिनं हरमवोचदुपांशु काचित् ॥ १४ ॥