पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१०१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३ पद्धतिः]
९३
भिक्षाटनकाव्यम् ।

आविर्भवत्यभि (हि)मभासि विकासमात्रा-
त्तत्प्रेयसीति नलिनी न किमाह लोकः ॥ ४ ॥
आमीलनेन कमलस्य मधुद्य(व्रतानां
स्वच्छन्दचारविहृतिस्त्वयि सान्यथैव ।
दुर्लेपिशंकरमुखाम्बुरुहेऽपि लीनः
शक्तोऽनुगन्तुमपरत्र कटाक्षभङ्गः ॥ ६ ॥
वासच्यु(श्च्यु)तं तव सखीत्यभिधीयमाना
नीलं हरस्य गलमूलमिति ब्रवीषि ।
उन्मादिनां जगति नूनमपार्थजल्पा-
दल्पान्तराणि मदनातुरभाषितानि ॥ ६ ॥
शंभोः समीपमुपगच्छसि निर्विशङ्कं
मुग्धे मनोभवभवेन मतिभ्रमेण ।
हाराहिमस्य न निरूपयसि क्षुधार्तं
द(दु)ग्धं च ते मुखमिदं शशिनिर्विशेषम् ॥ ७ ॥
स्रस्तोत्तरीयमधुना कुचमण्डलं ते
पाहि (णि)द्वयेन पिदधासि यदम्बुजाक्षि ।
तत्साधु संप्रति पुनर्वलयोज्झितस्य
तस्याभि... सखि केन तिरस्क्रियास्तु ॥ ८ ॥
नेत्रद्वयं हरविलोकनलाभमान्य
सर्वेतरेन्द्रियगतौ गमितेव शक्तिः ।
स्पर्शं न वेत्सु(त्सि) मुहरङ्गुलितापि(डि)तापि
नाह्वानशब्दमपि यत्सखि मे शृणोषि ॥९॥
सर्वाङ्गवीक्षणमनोभवभाग्यहीना
नूनं त्वमस्य गिरिशस्य किमद्य कुर्मः ।
वक्षःस्थले प्रथममस्य दृशं निमग्ना-
मुद्धर्तुमेव निपुणासि न यत्नतोऽपि ॥ १० ॥
.