पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१००

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९२
काव्यमाला ।

अन्तर्गतं झटिति वक्तुमिवेन्दुमौलिं
रोमाञ्चमन्तिकगताय सखीजनाय ॥ १५ ॥
बन्धश्लथः कचभरः प्रवलाश्रु नेत्रं
कम्पोत्तरं कुचयुगं गलदुत्तरीयम् ।
विस्रस्तकाञ्चि जघनं चरणां प्रयाणे
शक्तेतरः(त) मृगदृशो हरदर्शनेन ॥ १६ ॥
हस्तः कयापि गलितांशुकवारणाय
व्यापार(रि)तो वलयविच्युतिदैन्यपा(मा)प ।
धत्ते(यत्ने) कृते शमयितुं विनिपातमेकं
हानिं परामपि विधिर्विदधाति वामः ॥ १७ ॥

इत्युत्प्रेक्षावल्लभकृतौ भिक्षाटनकाव्ये पारवश्यपद्धतिर्द्वादशी।

त्रयोदशी पद्धतिः ।

कन्दर्पमुक्तशितबाणपरम्पराभिः
शंभोः शिरः प्रहृतचित्तमवेक्ष्य सख्यः ।.
नारीजनं निजगदुर्वचनानि यानि
रम्याणि सन्तु रसिकश्रुतिपारणाय ॥ १ ॥
मुग्धे स्मरार्ति पिशुनं वसनाञ्चलेन
रोमाञ्चमाव्रण (वृणु) पुरः पुरसुन्दरीणाम् ।
लोकः परस्खलनदर्शनदीप्य(र्घ)चक्षु-
र्जात्यन्ध एव निजदोषनिरीक्षणेषु ॥ २ ॥
यत्पूर्वमात्तविनयाञ्जलिरीशपार्श्वे
भूयाः सदेति मुहुरालि मयापदिष्टम् ।
तस्यावधीरणफलं वलयच्युतिस्ते
क्षेमंकरो भवति किं न शिवे प्रणामः ॥ ३ ॥
कामं विलोकय कृशोदरि कामशत्रुं
मा भूदयं तव मुखाम्बुरुहे विकासः ।