पृष्ठम्:काव्यमाला ( द्वादशो गुच्छकः).pdf/१०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
काव्यमाला ।

कल्याणं वितनोतु नः करुणया काकुत्स्थचूडामणे-
श्वापः कोपदुरापरुद्रविकटभ्रूवल्लरीविभ्रमः ।
यत्रोद्घाटितनैटिलेक्षणपुटप्रोद्दामधूमध्वज-
ज्वालावल्लिविडम्बडम्बरमयत्यापिञ्जरा शिञ्जिनी ॥ ६ ॥
कर्षद्दक्षिणपाणिलग्नसशरज्यावल्लिचक्रीकृतं
गृह्णद्वामकराङ्गुलीयकमणिच्छायोल्लसल्लस्तकम् ।
संरब्धस्य निषेदुषो रघुपतेरालीढभङ्ग्या रणे
धावद्राक्षससैनिकाक्षिविषयं क्षेमाय चापं भजे ॥ ७ ॥
भास्वच्चन्द्रकलाग्रमाशरकुलासृग्लोहिताङ्गं बुध-
ध्येयं चित्रशिखण्डजातघटितं वाल्मीकिकाव्यस्तुतम् ।
मन्दस्यापि मतिप्रदं प्रणमतो बाणं रणे बिभ्रते
श्रीरामस्य शरासनाय शिरसि न्यस्ये नमस्याञ्जलिम् ॥ ८॥
भद्रं यच्छति पापमत्ति भणितिं दत्ते यशः पुष्यति
प्रागल्भ्यं विवृणोति तस्य नुवति स्वं यो नरः सूक्तिभिः ।
यो देवान्विरुणद्धि विप्रकुरुते विप्रान्निगृह्णाति तं
चापं दाशरथेरिति श्रुतवता संसेव्यते तन्मया ॥९॥
आस्तामिन्द्रयमादिदिक्पतिकुलं तिष्ठन्तु देवास्त्रयो
देवो वा रघुनन्दनो विहरतु स्वैरं समं सीतया ।
अस्माकं तु शरण्यमस्ति परमं तत्किंचन प्राणिनां
कोटिस्पृष्टपयोधिसेतुसलिलैरेनः पुनानं धनुः ॥ १० ॥
अन्ये केलिगृहीतकालियफणारङ्गस्थलीनर्तन-
क्रीडामर्दलवाद्यहृद्ययमुनाकल्लोलकोलाहले ।
देवे प्रेम वहन्त्वहं तु कुतुकी काकुत्स्थहस्तद्वयी-
रङ्गोत्सङ्गनटे धनुष्यरिभटाक्रन्दोरुभेरीरवे ॥ ११ ॥
कालव्यालकपालजालघटितस्रग्भारघोरं परे
रुद्रं भद्रतृषाविषादकृतधीलोपा वृथोपासताम् ।