पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। यः संस्तुतः सकलबाध्ययतत्त्वबोधा- दुद्भूतबुद्धिपटुभिः सुरलोकनाथैः । स्तोत्रैर्जगत्रितयचित्तहरैरुदारैः तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥ २ ॥ (युग्मम् ) बुद्ध्या विनापि विबुधार्चितपादपीठ- स्तोतुं समुद्यतमतिर्विगतत्रपोऽहम् । बालं विहाय जलसंस्थितमिन्दुबिम्ब- मन्यः क इच्छति जनः सहसा ग्रहीतुम् ॥ ३ ॥ तेभ्यः श्लोकेभ्यस्तेषां मन्त्राणामुद्धारो दुष्कर एव. अस्माभिस्तु टीकाचतुष्कमुपल- ब्धम्-तत्र (१) श्वेताम्बरेण गुणचन्द्रसूरिशिष्यगुणाकरेण प्रणीता टीका समीचीना. अस्यां चतुश्चलारिंशत्पद्यानि व्याख्यातानि. प्रायः पद्यानन्तरं मन्त्रस्तत्प्रभावकथा च वर्णि- तास्ति. टीकानिर्माणसमयस्तु समाप्ती 'वर्षे षड्विंशाधिकचतुर्दशशतीमिते (१४२६) च बर्षौ । मासि नभस्य रचिता सरस्वतीपत्तने विवृतिः ॥' इत्यमुक्तः नागार्जुनप्र- णीतयोगरत्नावल्याष्टीकाकारो गुणाकरस्वमाद्भिन्नः यतस्तथीकान्ते श्रीमनृपविक- मतो द्वादशनवपड्भिरक्तेि (१२९६) वर्षे । रचिता' गुणाकरेण श्वेताम्बरभिक्षुणा विवृतिः ॥' इति टीकानिर्माणकालो वर्तते. (२) तपागच्छीयहीरविजयसूरिशिष्यक- नककुशलप्रणीता टीका संक्षिप्ता उपोद्घातप्रभावकथाभी रहिताच. अत्रापि चतुश्च. लारिंशत्पद्यान्येव व्याख्यातानि. समाप्तौ च 'श्रीमत्तपगणगगनाङ्गणदिनमणिहीरविजय- सूरीणाम् । शिष्याणुना विरचिता वृत्तिरियं कनककुशलेन ॥ नबनशररसेन्दु ( १६५२)- मिते वर्षे सुविराटनाम्नि वरनगरे । बालजनविबोधार्थ विजयदशम्यां हि सुसमाप्ता॥' एतदार्यायुग्मं वर्तते. (३) इयं टीका कर्तृनामरहिता सामान्या उपोद्धातमात्रसमेता वर्तते. एतत्प्रणेतापि कश्चन श्वेताम्बर एव प्रतीयते, यतोऽनेन मानतुझाचार्यों बृहद- च्छाधीशः श्वेताम्बरश्चासीदित्युक्तमस्ति. किलयमष्टचत्वारिंशच्छोकान्व्याख्यातवानि- त्यस्य श्वेताम्बरले मनाक्संदेहः (४) इयं टीका १६६७ संवत्सरे दिगम्बरभद्यारकरन- चन्द्रेण प्रणीता. अत्रापि ताश एबोपोद्धातोऽनुष्टुप्पाघटितस्तादृश्य एवं प्रभावक-थाश्च वर्तन्ते. मानतुझाचार्यों दिगम्बर आसीदित्यप्मनास्ति. किंतु टीकाकारः सुत- रामप्रौढः एतद्दीकाचतुष्टयमसन्चं सूरतनगरवासिनासन्मित्रेण केवलदासात्मजभगवा- नदासश्रेष्ठिना प्रहितम्. द्वित्राणि मूलपुस्तकानि वत्माभिर्जयपुरेऽथिगतानि. तदाधा- रेणास्मामिरेतत्स्तोत्रमुद्रणमारब्धमिति शुभम्. १. श्रीनामेयमिति गुणाकरः, वृषभमिति रत्नकुशलः, श्रीआदिनाथमिति कर्तृ- नामरहितटीका.सकलबाध्ययतत्त्वबोधा