पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१३४ काव्यमाला। यत्र नालीके चन्द्रतुल्यरुचि भ्रामरी भ्रमरसंबन्धिनी आली श्रेणिगन्धादयाकिंजल्क- बिन्दूनदधत्पपौ । किंभूता । केसरेषु लालसा लम्पटा । समुदिता मिलिता । आशु शीघ्रम् । इभेषु मदलोल्यादासिता विश्रब्धा । तत्र नालीके क्रमौ निदधती श्रुतदेवता वः पातु । किंभूता । रामुदिता सही । शुभ्रा शुक्ला छविर्यासां ताश्च ता अमर्यश्च ताभिः शोभिता । (सरला अलसा च)॥ तमजितमभिनौमि यो विराजद्वनघनमेरुपरागमस्तकान्तम् । निजजननमहोत्सवेऽधितष्ठावनघनमेरु परागमस्तकान्तम् ॥ ५॥ यः स्वामी निजजन्मोत्सवेऽधितष्ठौ । किं कर्म । विराजद्भिर्वनैर्घनो निरन्तरः अथवा शोभमानाम्भसो घना यत्र स बासौ मेरुपरागो मेरुपरमपर्वतस्तस्य शिखरामम् । किंभूतम् । अनघा नमेरवो देववृक्षविशेषास्तेषां रेणुर्यत्र तत्तथा । किंभूतं शिखरायम् अस्तोऽस्तगिरिखदरकान्तं कमनीयम् । अथवा जिनविशेषणम् । अस्ता कान्ता येन तम्॥ स्तुत जिननिवहं तमर्तितप्ताध्वनदसुरामरवेण वस्तुवन्ति । यममरपतयः प्रगाय पार्श्वध्वनदसुरामरवेणवस्तुवन्ति ॥ ६ ॥ हे लोकाः, तं जिनवृन्दं स्तुत । यं जिनब्रजममरेन्द्राः स्तुवन्तीति संबन्धः । किं कृत्वा । अल् पीडया तप्तानां शैत्याधायकतया साक्षादध्वनदो मार्गह्रदः सुरामः सुषु रमणीयो यो रवः शब्दस्खन करणभूतेन । वस्तुवन्ति च्छन्दोजातिविशेषयन्ति गीतानि प्रगाय गीत्वा । किंभूताः । पार्वे समीपे ध्वनन्तोऽसुरामराणां वेणवो बंशा येषां ते तथा । 'व्यत्यये(१) लुग्या' इति रेफस्य लुकू ।। प्रवितर वसति त्रिलोकबन्धो गम नययोगततान्तिमे पदे है। जिनमत विततापवर्गवीथीगमनययो गततान्ति मेऽपदेहे ॥ ७॥ अन्तिमे मोक्षलक्षणे पदे हे जिनमत ! मे मम वास देहि । हे गम हे सदृशपाठ, नया निगमादयस्तैर्योग संबन्धस्तेन विस्तीर्ण विपुलशिवमार्गगमने गयो अश्व । “ययुर- घोश्वमेधीयः' इति वचनात् । 'तमोऽअग्लान' इति धातोस्वास्तिग्लानिः । आपहि- स्वर्थः । गततान्ति अपगतग्लानि यथा स्यात् । किमते पदे । अपदेहे देहमुक्ते । सितशकुनिगताशु मानसीद्धाचततिमिरंमदमा सुराजिताशम् । वितरतु दधती पविं क्षतोयत्तततिमिरं मदभासुराजिता शम् ॥ ८॥ हंसारूढा मानसी देवी पविं वज्रं दधती शं सुखं प्रबितरतु । पर्वि किंभूतम् । इदा शीता माता नहीला ततिर्विस्तारो बेन' तत्तथा । मदो जलदानितद्वकान्तिर्यस्याः सा सुष्ठु शोभिता आधा दिशो येन । क्षत विनायच्छततं विस्तीर्णं ध्वान्तं यस्मात्तथा। देही दर्पोदरैरपराभूता ॥