पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्विंशतिजिनस्तुतिः। येन तस्य संबोधनम् । तथा सह आमै रोगैर्वर्तते सामः । न तथा असामोऽरोगत्तस्य संबोधनम् । जनानसिनन्दयति तस्य संबोधनम् । तथा अष्टापदं सुवर्णं तद्वदासमन्ताद्भा दीप्तिर्यस्य तस्य संबोधनम् । तप्तजात्यतपनीयसमवर्णलाद्भगवतः ॥ ते वः पान्तु जिनोत्तमाः क्षतरुजो नाचिक्षिपुर्यन्मनो दारा विश्रमरोचिताः सुमनसो मन्दारवा राजिताः । यत्पादौ च सुरोज्झिताः सुरभयांचकुः पतन्त्योऽम्बरा- दाराविभ्रमरोचिताः सुमनसो मन्दारवाराजिताः ॥२॥ ते जिनोत्तमा जिनेन्द्रा वो युष्मान्पान्तु रक्षन्तु । किंभूताः । क्षताः क्षीणा रुजो रोगा येषां येभ्यो वा ते । तथा येषां जिनानां मनो मानसं कर्मतापन्नं दाराः कलत्राणि कर्तृरूपाणि नाचिक्षिपुर्न क्षोभयामासुः । 'दाराः प्राणास्तु वलजाः' इति वचनाद्दारशब्दो बहुवचनान्तः पुंलिङ्गश्च । ते दाराः किंभूताः । विभ्रमविलास रोचिताः संशोभिताः । सुमनसः सुन्दरहृदयाः । मन्दारवा मृदुरवाः सन्तो राजिताः शोभिताः । सुमनसः पुष्पाणि कर्तृणि यत्पादौ यचरणौ सुरभयामासुः । किंभूताः सुमनसः । सुरोज्झिता देवमुक्ताः । अम्बरादाकाशात्पतन्त्यः । समवसरणभुवि संगच्छमानाः । आराविणः शब्दायमाना नमरास्तेषामुचिता योग्याः । मन्दारकुसुमवातैरजिताः ॥ शान्तिं वस्तनुतान्मिथोऽनुगमनाद्यन्नैगमाद्यैर्नयै- रक्षोभं जन हेऽतुलां छितमदोदीर्णाङ्गजालं कृतम् । तत्पूज्यैर्जगतां जिनैः प्रवचनं दृप्यत्कुवाद्यावली- रक्षोभञ्जनहेतुलाञ्छितमदो दीर्णाङ्गजालंकृतम् ॥ ३ ॥ तजगतां पूज्यैर्जिनैः कृतं प्रवचनं गणिपिटकरूपं को युष्माकं शान्तिं मोक्षमुपशमं वा तनुतात्कुरुतात् । यन्मिथोऽनुगमनादनुवर्तनाद्धतो गमादिमिर्नयैरक्षोभ परवादिभि. रजेयं वर्तते । हे जन भव्यलोक । शान्ति किंभूताम् । अतुलां निरुपमाम् । मतं किंभूतम् । छिदमदं छिन्नदर्पमुदीर्णमुच्छ्रितमहानामाचारादीनां जालं समूहो यत्र तत् । तथा माद्यत्ववादिश्रेणिः सैव क्रूरात्मकत्वाद्रक्षो राक्षसस्तस्य भञ्जनैर्भङ्गकारिमिहेतुमिाञ्छितं मण्डितम् । अदः प्रत्यक्षदृश्यम् । शीर्णमदनैः श्रमणादिभिरलंकृतम् । मियोऽनुगमना- दित्यत्र 'गुणादनियां न च" इति पञ्चमी ।। शीतांशुत्विषि यत्र नित्यमंदधद्गन्धाब्बधूलीकणा- नाली केसरलालसा समुदिताशु भ्रामरीभासिता । पायाद्वः श्रुतदेवता निदधती तत्राब्जकान्ती क्रमौ नालीकेसरलालसा समुदिता शुभ्रामराभासिता ॥४॥ १२ का० स० गु० P.