पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। महाकविशोभनमुनिप्रणीता चतुर्विंशतिजिनस्तुतिः। टिप्पणसमेता। धनपालपण्डितबान्धवेन शोभनाभिधानेन मुनिचक्रवर्तिना विरचितानां प्रतिजिनं चतुष्कभावा षण्णवति(?)संख्यानां शोभनलुतीनारावजूरिः किंचिल्लिख्यते । तत्रादौ युगादिस्तुतिमाह- भव्याम्भोजविबोधनैकतरणे विस्तारिकर्मावली- रम्भासामज नाभिनन्दन महानष्टापदामासुरैः । भक्त्या वन्दितपाद विदुषां संपादय प्रोज्झिता- रम्भासान जनाभिनन्दन महानष्टापदामासुरैः ॥ १ ॥ हे नाभिनन्दन नाभिनरेन्द्र पुत्र, त्वं महानुत्सवान्विदुषां संपादयेति संबन्धः । भव्या एवाम्भोजानि कमलानि तेषां विवोधन एकोऽद्वितीय स्तरणिः सूत्रस्तस्य संबोधनं हे भव्याम्भोजविबोधनकतरणे । सूर्यो यथा स्वगोसंभारस्तमो विधूय पद्मखण्डानि विकासयत्येवं भगवानपि मिथ्यावादितमस्तोमं ध्वसयिला निजगोसंभार संन्यजन्तूनां बोधं विधत्ते । ननु भव्यानामेव स प्रबोधं विधते न तव्यानां सहि तरण तलोधोऽसाम- ध्यमायातमिति । नैवम् । नहि भानवीया भानयो विश्वं विश्वमवभासयन्तोऽपि कौशिककुले आलोकमकुर्वाणा उपलम्मास्पदं स्युः । एवं भगवतो वाणी विश्वविश्वस्य प्रमोदविधायिन्यपि यद्यभव्यानां केषांचिनिबिडकमै निगनियन्त्रितानां प्रबोधायन प्रभवति तर्हि तस्या न ह्यसामर्थ्यम् । किं तु तेषामेवाभाग्यं येषां ता न रोच्यन्ते (सान रोचते)। नहि जलदो जलं प्रयच्छन्नूषरक्षेत्र तृणान्यनुत्पादनहुपालम्भसंभावनामहतीसलं विस्तरेण । विस्तारिणी विस्तारवती कर्मणां ज्ञानावरणादिभेदभिन्नानामावली माला सैव रम्भा कदली तस्याः प्रमदहेतुलासामजो हरती । तस्य संबोधनम् । है नाभिनन्दन । तथा महत्यो नष्टा आपदो यस्य स महानष्टापत् । संबोधनं वा। तथा आभासुरैः कान्तिसंभारेण समन्ताद्देदीप्यमानैरासुरैर्देवविशेषैर्भक्त्या आन्तरचित्तप्रतियन्धेन हे वन्दितपादपद्म हे स्तुतचरणकमल । प्रोज्झिताः प्रकर्षण त्यक्ता आरम्भाः सावश्व्यापारा १. एतस्या जिनस्तुतेः पुस्तकत्रयमवचूरिसमेतं केवलदासात्मजेन भगवान्दासश्रे- छिनासदर्थ प्रहितम्. स्त्र प्रथमं शुद्धं सुन्दरं पञ्चपनामाकं १५०५ मिते विक्रमाब्दे लिखितम्, द्वितीयमपि ताशमेवैकादशपत्रात्मकं १६११ मिते विक्रमाब्दे लिखितमू, तृतीयं नातिशुद्ध त्रयोदशपत्रात्मक १६१५ मिते विक्रमाब्दे लिखि-