पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रश्नोत्तररत्नमाला। १२३ कण्ठगतैरप्यमुभिः कस्यात्मा नो समर्प्यते जातु । मूर्खस्य विषादस्य च गर्वस्य तथा कृतघ्नस्य ॥ २० ।। कः पूज्यः सद्वृत्तः कमधनमाचक्षते चलितवृत्तम् । केन जितं जगदेतत्सत्यतितिक्षावता पुंसा ॥ २१ ॥ कस्मै नमः सुरैरपि सुतरां क्रियते दयाप्रधानाय । कस्मादुद्विजितव्यं संसारारण्यतः सुधिया ॥ २२ ॥ कस्य वशे प्राणिगणः सत्यप्रियभाषिणो विनीतस्य । क्व स्थातव्यं न्याय्ये पथि दृष्टादृष्टलाभाय ॥ २३ ॥ विद्युद्विलसितचपलं किं दुर्जनसंगतं युवतयश्च । कुलशैलनिष्पकम्पाः के कलिकालेऽपि सत्पुरुषाः ॥ २४ ॥ किं शोच्यं कार्पण्यं सति विभवे किं प्रशस्यमौदार्यम् । तनुतरवित्तस्य तथा प्रभविष्णोर्यत्सहिष्णुत्वम् ॥ २५ ॥ चिन्तामणिरिव दुर्लभमिह किं कथयामि ननु चतुर्भद्रम् । किं तद्वदन्ति भूयो विधूततमसो विशेषेण ॥ २६ ॥ दानं प्रियवाक्सहितं ज्ञानमगर्वं क्षमान्वितं शौर्यम् । त्यागसहितं च वित्तं दुर्लभमेतच्चतुर्भद्रम् ॥ २७ ॥ इति कण्ठगता विगला प्रश्नोत्तररत्नमालिका येषाम् । ते मुक्ताभरणा अपि विभान्ति विद्वत्समाजेषु ॥ २८ ॥ चिता सितपटगुरुणा विमला विमलेन रत्नमालेव । प्रश्नोत्तरमालेय कण्ठगता कं न भूषयति ॥ २९ ॥ इति श्रीविमलविरचिता प्रश्नोत्तररत्नमाला । १. 'संसारावासतः'क. २. 'दृष्ट्यदृष्टार्थलाभाय' ख. ३. हितोपदेशेऽपीयमार्या समुद्धृतास्ति. ४. ख-पुस्तकेऽस्या आर्यायाः स्थाने "विवेकात्त्यज्ञराज्येन राज्ञेयं रन. मालिका । रचितामोघवर्षेण सुधियां सदलंकृतिः । एतत्पद्यं वर्तते.