पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२२ काव्यमाला। मदिरेव मोहजनकः कः स्नेहः के च दस्यवो विषयाः। का भववल्ली तृष्णा को वैरी नन्वनुद्योगः ॥ ७ ॥ कस्माद्भयमिह मरणादन्धादपि को विशिष्यते रागी। कः शूरो यो ललनालोचनबाणेन च व्यथितः ।। ८ ।। पातुं कर्णाञ्जलिभिः किममृतमिव बुध्यते सदुपदेशः । किं गुरुताया मूलं यदेतदप्रार्थनं नाम ॥ ९ ॥ किं गहनं स्त्रीचरितं कश्चतुरो यो न खण्डिनम्तेन । कि दारिद्र्यमसंतोष एव किं लाघवं याच्ञा ॥ १० ॥ कि जीवितमनवयं किं जाड्यं पाटवेऽप्यनभ्यासः । को जागर्ति विवेकी का निद्रा मूढता जन्तोः ।। ११ ॥ नलिनीदलगतजललबतरलं कि यौवनं धनमथायुः । के शशधरकरनिकरानुकारिणः सज्जना एव ।। १२ ।। को नरकः परवशता किं सौख्यं सर्वसङ्गविरतिर्या । किं सत्यं भूतहितं किं प्रेयः प्राणिनामसवः ।। १३ ।। किं दानमनाकाङ्क्षं किं मित्रं यन्निवर्तयति पापात् । कोऽलंकारः शीलं किं वाचां मण्डनं सत्यम् ॥ १४ ॥ किमनर्थफलं मानसमसंगतं का सुखावहा मैत्री । सर्वव्यसनविनाशे को दक्षः सर्वथा त्यागः ॥ १५ ॥ कोऽन्धो योऽकार्यरतः को बधिरो यः शृणोति न हितानि । को मूको यः काले प्रियाणि वक्तुं न जानाति ॥ १६ ॥ किं मरणं मूर्खत्वं किं चानयं यदवसरे दत्तम् । आ मरणात्किं शल्यं प्रच्छन्नं यत्कृतमकार्यम् ॥ १७ ॥ कुत्र विधेयो यलो विद्याभ्यासे सदौषधे दाने । अवधीरणा के कार्या खलपरयोषित्परधनेषु ॥ १८॥ काहर्निशमनुचिन्त्या संसारासारता न च प्रमदा। का प्रेयसी विधेया करुणा दाक्षिण्यमपि मैत्री ॥ १९ ॥