पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। कम्रानम्राङ्गिचेतःशिखिकुलविलसत्ताण्डबाडम्बरश्री- हेतुः प्रेङ्खन्नखालीरुचिररुचितडिदामनेत्राभिरामः । प्रीतिं फुल्लत्फणाभाग्मणिणिसुमनश्चापचित्रीकृतद्यौ- र्देयास्त्वं देशनावाक्स्तनितसुखकरो मेघवन्मेऽघहन्तः ॥ ३ ॥ भिन्दल्लोकप्रवाहप्रबलतरसरित्पूरमुच्चैर्वहन्तं जन्तूनां चित्तभूमौ स जयति जगति स्वदचोवारिकान्तः । मुक्त्वा गाढं गृहीतानपि विनतजनान्यत्प्रवाहाद्भया? भूयस्तन्मध्यमेव प्रविशति झटिति क्रूरमोहावतारः ॥ ४ ॥ लौल्याल्लावण्यलक्ष्मीमधुरमधुरसं त्वन्मुखाम्भोरुहोत्थं पायंपायं भरेण प्रणतभवभूतां नेत्रपुष्पंघयाल्यः । नूनं हर्षप्रकर्षोद्वतनयनपयापूरदम्भेन दूरं मिथ्यादृग्लोचनानामसुलभ भगवन्सद्य एवोद्भिरन्ति ॥ ५ ॥ निःस्यन्दानन्दकन्दः कलिमलकदलीकाण्डखण्डीकृतौ य- त्कक्षाकौक्षेयकस्य क्षपितभवशतं नेत्रपीयूषसत्रम् । श्रेयःश्रीवल्लिहल्लीसकमलयमरुद्भाग्यमारोग्यलक्ष्म्या- दर्शः कंदर्पदर्पद्विजपतिपतनं दर्शनं तावकीनम् ॥ ६ ॥ विद्याविद्याधरीणां मणिमयमुकुरः क्रूरवैरारिजैत्रो गात्रश्रीमैत्र्यपात्रीकृतरतिरमणः सच्चरित्रैः पवित्रः । सद्भोगाभोगभागी सुभगिमभवनं श्रीजिन श्रीद संप- निष्कम्पः संपनीपद्यत इह मनुजः साधु नत्वा जिन खा ॥ ७ ॥ देव्या वाचोऽपि वाचामविषय दिविषन्मन्दिरद्वारसेवा- हेवाकीसर्वनाकीश्वरमुकुटतटीधृष्टपादाम्बुजस्य । नेतश्चैतन्यशून्यः सकलकलयितुर्मुक्तिमात्रस्य दाता मुक्तिं भुक्तिं च दातुः कथमिव भवतः कल्पवृक्षः सदृक्षः ॥ ८॥ चन्द्रः प्रत्युदकाशयं प्रतिफलत्येको न चार्थक्रिया- कारीत्येष न चास्तवांस्तव पुनर्वृत्तं जयत्यद्भुतम् । २. प्रतिजलाशयम्. १. सरस्वत्याः