पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०६ काव्यमाला। अनाप्तजाड्यादिविनिर्मितित्वसंभावनासंभविविप्रलम्भाः । परोपदेशाः परमाप्तकृप्तपथोपदेशे किमु संरभन्ते ॥ १५ ॥ यदार्जवादुक्तमयुक्तमन्यैस्तदन्यथाकारमकारि शिष्यैः । न विप्लवोऽयं तव शासनेऽभूदहो अधृप्या तव शासननीः ॥ १६ ॥ देहाद्योगेन सदाशिवत्वं शरीरयोगादुपदेशकर्म । परस्परस्पर्धि कथं घटेत परोपकृप्तेप्वधिदैवतेषु ॥ १७ ॥ प्रागेव देवान्तरसंश्रितानि रागादिरूपाण्यवमान्तराणि । न मोहजन्यां करुणामपीश समाधिमास्थाय युगानितोऽसि (1) ॥१८॥ जगन्ति भिन्दन्तु सृजन्तु वा पुनर्यथातथा वा पतयः प्रवादिनाम् । त्वदेकनिष्ठे भगवान्भवक्षयक्षमोपदेशे तु परं तपस्विनः ॥ १९ ॥ वपुश्च पर्यङ्कशयं श्लथं च दृशौ च नासानियते स्थिरे च । न शिक्षितेयं परतीर्थनाथैर्जिनेन्द्र मुद्रापि तवान्यदास्ताम् ॥ २० यदीयसम्यक्त्वबलात्प्रतीमो भवादृशानां परमस्वभावम् । कुवासनापाशविनाशनाय नमोऽस्तु तस्मै तव शासनाय ॥ २१ ॥ अपक्षपातेन परीक्षमाणा द्वयं द्वयस्थाप्रतिम प्रतीमः । यथास्थितार्थप्रथनं तवैतदस्थाननिर्बन्धरसं परेषाम् ॥ २२ ॥ अनाद्यविद्योपनिषन्निषण्णैर्विशृङ्खलैश्चापलमाचरद्भिः । अगूढलक्ष्योऽपि पराक्रिये यत्त्वस्किंकरः किं करवाणि देव ॥ २३ ॥ विमुक्तवैरन्यसनानुबन्धाः श्रयन्ति यां शाश्वतवैरिणोऽपि । परैरगम्यां तव योगिनाथ तां देशनाभूमिमुपाश्रयेऽहम् ॥ २४ ॥ मदेन मानेन मनोभवेन क्रोधेन लोभेन च संमदेन । पराजितानां प्रसभं सुराणां वृथैव साम्राज्यरुजा परेषाम् ॥ २५ ॥ स्वकण्ठपीठे कठिनं कुठारं परे किरन्तः प्रलपन्तु किंचित् । मनीषिणां तु त्वयि वीतराग न रागमात्रेण मनोऽनुरक्तम् ॥ २६ ॥ सुनिश्चितं मत्सरिणो जनस्य न नाथ मुद्रामतिशेरते ते । माध्यस्थ्यमास्थाय परीक्षका ये मणौ च काचे च समानुबन्धाः ॥२७॥