पृष्ठम्:काव्यमाला (सप्तमो गुच्छकः).pdf/११२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीमहावीरस्वामिस्तोत्रम् । स्तुतावशक्तिस्तव योगिनां न किं गुणानुरागस्तु ममापि निश्चलः । इदं विनिश्चित्य तव स्तवं बदन्न बालिशोऽप्येष जनोऽपराध्यति ॥२॥ क्व सिद्धसेनस्तुतयो महार्था अशिक्षितालापकला क्व चैषा । तथापि यूथाधिपतेः पथस्थः स्खलद्गतिस्तस्य शिशुर्न शोच्यः ॥ ३ ॥ जिनेन्द्र यानेव विबाधसे स्म दुरन्तदोषान्विविधैरुपायैः । त एव चित्रं त्वदसूययेव कृताः कृतार्थाः परतीर्थनाथैः ।। ४ ।। यथास्थितं वस्तु दिशन्नधीश न लादृशं कौशलमाश्रितोऽसि । तुरंगशृङ्गाण्युपपादयद्भ्यो नमः परेभ्यो नवपण्डितेभ्यः ॥ ५॥ जगत्यनुध्यानबलेन शश्वत्कृतार्थयत्सु प्रसभं भवत्सु । किमाश्रितोऽन्यैः शरणं त्वदन्यः स्वमासदानेन वृथा कृपालुः ॥ ६॥ स्वयं कुमार्गं लपतां नु नाम प्रलम्भमन्यानपि लम्भयन्ति । सुमार्गगं तद्विदमादिशन्तमसूययान्धा अवमन्यते च ॥ ७ ॥ प्रादेशिकेभ्यः परशासनेभ्यः पराजयो यत्तव शासनस्य । खद्योतपोतद्युतिडम्बरेभ्यो विडम्बनेयं हरिमण्डलस्य ॥ ८ ॥ शरण्य पुण्ये तव शासनेऽपि संदेग्धि यो विप्रतिपद्यते वा । स्वादौ स तथ्ये स्वहिते च पथ्ये संदेग्धि वा विप्रतिपद्यते वा ॥९॥ हिंसाद्यसत्कर्मपथोपदेशादसर्वविन्मूलतया प्रवृत्तेः । नृशंसदुर्बुद्धिपरिग्रहाच्च श्रूमस्त्वदन्यागममप्रमाणम् ॥ १०॥ हितोपदेशात्सकलज्ञलमुर्मुक्षुसत्साधुपरिग्रहाच्च । पूर्वापरार्थेऽप्यविरोधसिद्धेस्त्वदागमा एव सतां प्रमाणम् ॥ ११ ॥ क्षिप्येत वान्यैः सदीक्रियेत वा तवालिपीठे लुठनं सुरेशितुः । इदं यथावस्थितवस्तुदेशनं परैः कथंकारमपाकरिष्यते ॥ १२ ॥ तद्दुःखमाकालखलायितं वा पचेलिमं कर्म तवानुकूलम् । उपेक्षते यत्तव शासनार्थमयं जनो विप्रतिपद्यते वा ॥ १३ ॥ परःसहस्राः शरदस्तपांसि युगान्तरं योगमुपासतां वा । तथापि ते मार्गमनापतन्तो न मोक्ष्यमाणा अपि यान्ति मोक्षम् ॥१४॥