पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/६२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
काव्यमाला।


वैशम्पायनतां यातः पुण्डरीकः क्षितावयम् ।
इति जाबालिकथितं श्रुत्वा जातिः स्मृता मया ॥ ६४ !!
कपिञ्जलोऽथ मामेत्य समाश्वास्याविशन्नमः।
महाश्वेताश्रमं गन्तुमुद्यतोऽहं च्युतः श्रमात् ।। ६५ ।।
बद्धश्चाण्डालजालेन प्राप्तः कुत्सितपक्कणम् ।
चण्डालकन्यया तत्र क्षिप्तोऽहं हेमपञ्जरे ।। ६६ ।।
न वेद्नि हेतुना केन देवस्योपायनीकृतः ।
शुकेनेत्थं कथितया कथया सह सा क्षपा ॥ १७ ॥
क्षयं ययौ स्मयेनेव स्मेरविस्मेरतारका ।
कादम्बरीं स्मरन्क्षीब इव राजा समीक्ष्य ताम् ॥ १८ ॥
पप्रच्छ प्रातराहूय चण्डालीं तामुवाच सा ।
देवः कुमुद्वतीकान्तस्त्वं शंकरशिरोमणिः ॥ १९ ॥
कादम्बरी विरहिणी स्मर्यतां स्मरसुन्दर ।
नाताहं पुण्डरीकस्य पद्मलक्ष्मीरसंशया ।। ७० !!
वैशम्पायनतां यातः शापादेष गुरोः शुकः ।
अद्यापि चपलः शापभीत्यायं परिरक्षितः ॥ ७१।
प्राप्ता चण्डालता राजञ्जनस्पर्शभयान्मया ।
इत्युक्त्वा साविशद्व्योम तेजपिञ्जरिताम्बरा ।। ७२ ॥
जीवं च दयिते स्मृत्वा जहतुः शुकशूद्रकौ ।
चन्द्रापीडः क्षणे तस्मिन्सहसावाप्तजीवितः ।। ७३ ॥
कण्ठे कादम्बरीं चक्रे रत्वशय्यासनोत्थितः ।
पुण्डरीकश्च तत्काले निर्गतश्चन्द्रमण्डलात् ॥ ७४ ||
महाश्वेतां समभ्येत्य चक्रे हर्षसुधालुताम् ।
हंसचित्ररथावेत्य गन्धर्वाधिपती ततः ।। ७६
दुहितोश्चक्रतुः प्रीत्या विवाहोत्सवमङ्गलम् ।
कथयित्वेति वेतालः पप्रच्छ धरणीपतिम् ॥ ७६ ।।