पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
काव्यमाला ।

मर्त्यलोके पत क्षिप्रमिति सत्या समीरिते ।
कारुण्यदैन्यसंत्रासविषण्णे गणमण्डले ॥ ६१ ॥
नहि निर्वहणं यान्ति प्रभूणामाश्रिते रुषः ।
प्रसीद देवि मित्रार्थे माल्यवानित्यभाषत ।। ६२ ।।
वयस्यशापनिर्वाणयाच्ञाप्रणतशेखरम् ।
क्रुद्धा तमपि रुद्राणी शशाप गणशेखरम् ॥ ६३ ॥
यक्षो धनदशापेन विन्ध्याटव्यां पिशाचताम् ।
अवाप्तः श्रोष्यति त्वत्तः कथाचोर कथामिमाम् ॥ ६४ ॥
काणभूतिर्यदा शापनिर्वाणं लप्स्यते तदा ।
पुनस्तामेव च कथां कथितां काणभूतिना ।। ६५ ॥
श्रुत्वैव माल्यवानेष शापस्यान्तमवाप्स्यति ।
इति तद्याचितं देवी शापस्यान्तमकल्पयत् ॥ ६६ ॥
अवाङ्मुखौ चलन्मौलिमालाव्याकुलषट्पदौ
ततः शापाक्षरव्रातैस्तौ कृष्टाविव पेततुः ॥ ६७ ॥
तयोश्चिरस्य शापेन वसुधामवतीर्णयोः ।
तद्वृत्तान्तं गिरिजया पृष्टः प्राह त्रिलोचनः ॥ ६८ ॥
कौशाम्बीवासिनः सुभ्रु पुत्रतामग्रजन्मनः ।
प्रयातः सोमदत्तस्य पुष्पदन्तो महीतले ॥ ६९ ॥
कात्यायनः श्रुतधरस्तथा वररुचिश्च सः।
गुणिनामग्रणीर्लोके नामभिस्त्रिभिरुच्यते ॥ ७० ॥
प्रतिष्ठानपुरे जातो माल्यवान्दक्षिणापथे।
गुणाढ्य इति यो लोके विश्रुतो गुणगौरवात् ।। ७१ ॥
इति गिरिशवचो निशम्य देवी किमपि बभूव कृपाविषण्णचित्ता ।
रतिविरहकृशा समागमाय प्रयतधिया च जया....नश्चकार ॥७२॥
कथावतारः ॥१॥
इति श्रीक्षेमेन्द्रविरचितायां बृहत्कथायां कथापीठलम्बके प्रथमस्तरङ्गः ।
LASER