पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६. सूर्यप्रभे-गुणशर्माख्यायिका ।]
१५१
बृहत्कथामञ्जरी ।

तस्मिन्विदारिते व्यूहे द्विषतां त्रिदिवौकसाम् ।
सूर्यप्रभादयः सर्वे विविशुः शात्रवं बलम् ॥ १६९ ।।
महावीरक्षये तत्र कृतान्तविततोत्सवम् ।
युद्धं विद्याधरेन्द्राणां निमर्यादमवर्तत ।। १७० ॥
तेषां सेनासमुद्राणामचलैः कुञ्जरादिभिः ।
क्षोदितानां बभुः खड्डाः कालकूटच्छटा इव ॥ १७१॥
ससर्ज धवलोष्णीषच्छन्नवंशौधपाण्डुराः ।
खङ्गमीजगजग्राहा रणे रक्ततरङ्गिणीः ॥ १७९
ततो दिनान्ते विपुलव्याप्तामश्लथकण्टकाः ।
आवहारं मिथश्चक्रुः समरे गुलिकाधराः ॥ १७३ ॥
निशि सूर्यप्रभो वीररसोत्साहपरायणः ।
लेभे न निद्रामासन्नविवाह इव बालकः ॥ १७४ ।।
विनोदिनीं कथां कांचित्कथयेत्येथ सादरम् ।
पृष्टः सूर्यप्रभेणाह सुहृद्वीतभयाभिधः ॥ १७६ ।।
उज्जयिन्यां महासेनो बभूव वसुधाधिपः ।
तस्याशोकवती नाम सुन्दरी दयिताभवत् ॥ १७६ ।।
गुणशर्माभिधो विप्रः सचिवश्च गुणाधिकः ।
विद्यानां च कलानां च केलिसौध इबोन्नतः ॥ १७७ ॥
तं कदाचित्प्तविश्रम्भो राजा भार्यासखो रहः ।
प्राह दर्शय मे नृतं नृत्यज्ञोऽसीति सादरम् ॥ १७८ ॥
सोऽब्रवीद्राजमहिषीपुरः कथमहं विभो ।
निर्लज्जो नर्तक इव प्रभवामि लदीप्सिते ॥ १७९ ॥
अहं सर्वकलाभिज्ञः पश्य में कौतुकं परम् ।
नृत्यं हि ललितं वस्तु योषितामेव शोभते ॥ १८॥


१. बलवत् ख. २. 'संसपत्' ख.३. 'फेनौं'ख, ४. 'तस्य शोका' क.