पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०२
काव्यमाला ।

राज्ञो रम्भाभिधानस्य सुतां वज्रपुरप्रभोः ।
पाप तारावली नाम श्यामां शीतांशुसुन्दरः ।। ३९ ॥
तेषां महीभुजां गत्वा सानुगो गगनाग्रगः ।
पुराणि क्रमतो भेजे ताभिः परिणयोत्सवम् ॥ ४ ॥
स ताभिः सह कान्ताभिः संनिवृत्तोत्सवोऽभितः ।
भेजे निजां पुरीं प्राप्य वाहिनीभिरिवाम्बुधिः ॥ ४१ ॥
ततः कदाचिंदास्थानसभां पित्रा सेमाश्रिताम् ।
समेत्य पूजितः प्राह श्रीमान्मयमहासुरः ।। ४२ ।।
राजपुत्र रिपुध्वंसे किमद्यापि विलम्बसे ।
प्रतापः कुण्ठतां सत्यं यात्यनुद्योगमन्थरः ॥ ४३ ॥
मानिनां सत्त्वमहतां वीराणां शौर्यवर्तिनाम् ।
उत्साहारम्भमात्रेण वर्धन्ते सर्वसंपदः ।। ४४ ॥
इति तद्वचसा क्षिप्रं राजसूनुर्जयोन्मुखः
नृपेभ्यः प्राहिणोद्भूतं तूर्णमागम्यतामिति ॥ १५ ॥
राज्ञासृष्टेषु दूतेषु सुहृत्संबन्धिबन्धुषु ।
सूर्यप्रभः महामात्यो बभूव समरोत्सुकः ॥ ६ ॥
अत्रान्तरे सुरमुनिः प्रभापिञ्जरिताम्बरः ।।
तासभा नारदोऽप्यायाद्विसृष्टः शतमन्युना १७ ॥
स प्रविश्याप्तसत्कारः संप्राप्य कनकासनम् ।
शनैरुवाच राजानं दानवाधिपसंनिधौ ॥ ४
अभिधत्ते सहस्राक्षः क्ष्मापते त्वां प्रमादिनम् ।
रुद्रयज्ञोद्धतः किं त्वं ममाप्यप्रियमीहसे ॥ ४९ ॥
कुलकमागतो राजा श्रुतशर्मा महाबलः ।
विद्याधराणां तस्य त्वं प्रतिपक्षदशां श्रितः ॥ १० ॥


ची जखमरसभोगदीक्षित ख.३ रेख. ४. 'दस.स तमा एक मिति के क. 'मालिला' ख. ४. जिायन्ते सनियर १०मयमा खस्मा खा