पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३८
काव्यमाला ।

तस्य कान्तिमती नाम कान्तिकल्लोलिनी प्रिया
रुचिभ्रमभ्रमद्वीचिरभूत्सौभाग्यवारिधीः ॥ ११ ॥
तस्य स्कन्द इवेशस्य जयन्त इद वज्रिणः ।
सूर्यप्रभोऽभवल्सूनुः प्रतापाक्रान्तभूधरः ॥ १३ ॥
बभूवुः सचिवास्तस्य समग्रगुणदर्पणाः ।
महार्थश्च प्रभावश्चं भासः सिद्धार्थकस्तथा ॥ १७ ॥
चन्द्रप्रभो ददौ तस्मै यौवराज्यं मुदान्वितः ।
स्वयमेवार्पिता धर्म्यैरन्वये श्रीविलोक्यते ॥ १८ ॥
ततः कदाचिरस्थाने स पुत्रं तं नगरेश्वरम् ।
दानवाधिपतिः श्रीमान्मयः कार्यार्थमाययौ ॥ १९ ॥
तमालश्यामलः शुभ्रदंष्ट्रांशुशबलच्छविः ।
बलांकावल्यव्याप्तः प्रावृषेण्यः इवाम्बुदः ॥ २० ॥
स्फुरत्कुण्डलकेयूरमौलिरत्नांशुसंचयः ।
नृत्यच्छिखण्ड्यैवचयो नीलाद्रिरिव जङ्गमः ॥ २१ ॥
स पूजितो नृपतिना भेजे स्फाटिकमासनम् ।
गजेन्द्र इव विस्फारं तुषारगिरिकन्दरम् ॥ २२ ॥
नम्रेण भूभुजा पृष्टः प्राहागमनकारणम् ।
स्निग्धगम्भीरनिर्घोषो विवर्षिषुरिवाम्बुदः ॥ २३ ॥
राजन्महेश्वरादिष्टः पुत्रं सूर्यप्रभं तव ।
प्राप्तः समस्त विद्यानां नेतुं भाजनतामर्हम् ॥ २४ ॥
विजित्यः श्रुतिशर्माणमेष विद्याधरेश्वरम् ।
विद्यामृतां चक्रवर्ती भविता शिवशासनात् ॥ २५ ॥
पक्षे स्थिताः सुराः सर्वे संशक्राः श्रुतिशर्मणः
वयं च तव पुत्रस्य दानवाः पक्षमाश्रिताः ॥ २६ ॥


विस २. धे. ३. 'न्यै ख... ४. ततः कदाचिदास्थाने सपुत्रं त मरे म बस ख.