पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५, चतुरिक शक्तिदेवकथा ।]
१३५
बृहत्कथामञ्जरी ।

दत्वा स्वमांसं विदधे वीरो वेताल साधनम् ।। २४९ ॥
वेतालवाहनो गत्वा देवदतो विहायसा ।
विद्याधरपदं प्राप्य जालपादमवाप्तवान् ।। २४६ ॥
यक्षजातिविमुक्तां च प्राप्तां विद्याधरीपदम् ।
विद्युन्मतीमवाप्यासौ जालपादमपातयत् ।। २४७ ।।
वेतालबलविभ्रष्टे महाव्रतिनि स द्विजः ।
विद्याधरो बभूवैवं तवाप्यस्ति पुरः शुभम् ।
श्रुत्वैवं शक्तिदेवोऽपि प्रसन्नहृदयोऽभवत् ॥ २४८ ॥
इति देवदत्ताख्यायिका ॥ ६ ॥
क्षिप्रं पाटय में गर्भं नैतदश्रेयसे तव ।
इति तद्वाक्यमाकर्ण्य शुश्राव नभसो गिरम् ॥ २४९ ।।
शक्तिदेवाचिरादेव गर्भं पाटय पाटय ।
राजा कनकपुर्यो त्वं व्योमचारी भविष्यसि ॥ २५० ।।
इत्युक्तस्तद्विधायासौ त्यक्तदेहां प्रियां पुरः ।
आकाशगामिनीं दृष्ट्वा गगनादशृणोत्पुनः ॥ २६१ ॥
कण्ठे पीडय गाद त्वं गर्भमेन विनिःसृतम् ।
श्रुत्वैति मुष्टिना गाढं त्वं जग्राह सहाशयः ॥ २९२ ॥
स तेन पीडितो गर्भः स्वङ्गोऽभूदभुजगच्छविः ।।
फुल्लोत्पलवनानीव यत्प्रभाभिरभून्नभः ॥ २६३ ।।
यातायां बिन्दुलेखायां प्राह दाससुतापतिम् ।
अयं खड्गस्त्वया प्राप्तो विद्याधरगतिप्रदः ॥ २६.४ ।।
अहं कनकलेखाख्या बिन्दुलेखा च या त्वया ।
शयने विगतप्राणा दृष्टा वल्लभता वयम् ॥ २९९ ॥
स्थिता कनकपुर्यां सा ज्येष्ठा चन्द्रप्रभा मम ।
क्षियं तदेहि गच्छाव शापोऽसौ विगतोऽद्य नः ।। २५६॥


'विचार्यैव ख. २. जीवा' ख.