पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
काव्यमाला ।

समुद्रमत्स्यनामानं ददर्शात्यन्तविस्मितः ॥ २१० ॥
तीर्णः फलहकेनाहं भग्नपोतस्तदाम्बुधौ
पित्रा यदृच्छयाप्तेन वीक्षितो द्वीपगामिना ॥ २११ ॥
इति तद्वाक्यमाकर्ण्यः कथयित्वा निजां कथाम् ।
तत्कल्पितप्रवहणः शक्तिदेवोऽम्बुधिं ययौ ।। २१२ ॥
द्वीपमुत्पलकं प्राप्तो दृष्टः सत्यव्रतात्मजैः ।
अनेन नः पिता नीतो हृतो वेत्यभिभर्त्सितः ॥ २१३ ॥
तद्वाक्यात्पितरं ज्ञात्वा बडवाग्निपतङ्गत्ताम् ।
यातं ते च क्रुधा विप्रं योगे पशुमकल्पयन् ।। २१४ ॥
स गाढ निगडाबद्धः स्वप्ने कात्यायिनीवरात् ।
कृत्वा विद्याधरीं गूढां भेजे सत्यवतात्मजाम् ॥ २१५ ॥
विमुक्तबन्धनः प्राप कन्या बिन्दुमतीं सतीम् ।
योमासमारनम्रासं ददर्श श्वपचं पथि ॥ ११६ ।।
दासपुत्री च तं दृष्ट्वा हर्म्यस्था प्राह वल्लभम् ।
गत्वां विकारलेशेन जातास्म्यनुचिते कुले ॥ २१७ ॥
गौमांसभक्षणात्पापांन्न जाने यान्ति कां गतिम् ।
धेसुलायुमयी तन्त्री मया दन्तेन खण्डिता ॥ २१८ ॥
वीणाविनोदनात्पापादियं मे दाससंगतिः ।
श्रुत्वेति सा कथां पृष्टा शक्तिदेवेन सावदत् ।। २१९ ॥
भविष्यत्युपरा भार्या तव तद्भर्मपाटक:
यदि स्यात्तत्कथामेतां ध्रुवं ज्ञास्यसि वल्लभ ॥ २२० ।।
इति बिन्दुमतीवाक्यं श्रुत्वा विप्रः सकौतुकः ।


समुदत इति कथासरित्सागरे १२८ पृष्ठ.२. 'बभूवा' ख. उपचलको हेति षासरित्सागरे १२८ पृष्ठे. ५ कृत्वा स ६ वशंवद्धम' तली हितराख. बायकासलेपन स्वाद तल्या स. विदवा स्मारक सज्ञास्थतिः ख १२ मा खे..