पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
चतुदीरिके-देवदत्ताख्यायिका ।]
१३१
बृहत्कथामञ्जरी ।

अपश्यद्दिव्यतुरगं मार्तण्डस्येव विस्मृतम् ।। १९९ ॥
खुरेणोत्सारितस्तेन पतितः सरसीजले ।
वर्धमानपुरोपान्तादुन्ममज्ज ससंभ्रमः ॥ २०० ॥
स्वप्नदृष्टमिवाशेषं मन्यमानोऽतिदुःखितः ।
भ्रान्त्वा नगरपीथीषु राजद्वारमवाप्तवान् ॥ २०१॥
दृष्टा हेमपुरी येन लप्स्यते स नृपोत्मजाम् ।
पुनः श्रुत्वेति पटहं प्रतीहारमुवाच सः ॥ १०२ ॥
सा. मया काञ्चनपुरी दृष्टा राज्ञे निवेद्यताम् ।
इति तस्य प्रतीहारो बृचः क्ष्मापं व्यजिज्ञपत् ।। २०३ ।।
न्यस्तः कनकलेखाग्रे शक्तिदेवोऽथ भूभुजा ।
मया दृष्टा पुरी सा च सभ्याः सप्रविभाधिकम् ॥ २०४॥
असत्यवादी धूर्तोऽयं पुरास्माभिस्तिरस्कृतः ।
परोपकारितनया प्राहेति क्षणमस्मिता ॥ २० ॥
शक्तिदेवोऽवदत्सुभ्रु दृष्टाश्चन्द्रप्रभानुजाः ।
तिस्रः कनकपुर्या त्वं तासां मध्ये निरीक्षिता ॥ २०६ ।।
जातिस्मरा निशम्येति राजपुत्री कृतादरा ।
श्रुत्वा हेमपुरीवार्ता विस्तरेण तदोदिताम् ॥ २०७ ।।
ययौ विद्याधरी भूत्वा तां पुरीं सा विहायसा ।
अनुसै मशक्तोऽसौ बभूव भृशदुःखितः ॥ २० ॥
पुनरध्यवसायैकसहायः पुरसंचयात् ।
ग्रामारण्यनदीशैलांल्लङ्घयन्प्रययौ शनैः ॥ २०९ ॥
विटङ्कपुरमासाद्य तमेव वणिजं पुनः ।


१. भास्करस्येव विस्मितम् ख. २. बर्यमानः खुराधाता' ख. ३. 'त्याह सत्यात्सप्रतिमधिकम्' ख. ४. 'दुःखिता' रु. ५. मक्षिता' ख..६, 'तत्याज मानुष देई निौकमिव पन्नगी । प्रयाता काञ्चनपुरी तो विलोक्यः विहायला वं. गन्तुं ख. ८. समुद्रतीर ख.