पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
काव्यमाला ।

इह स्थिताहमेकैव भगनीसंगमाशया || १८७६
गौरी पुरा मामवदम्मनुष्यस्ते भविष्यति ।
यतिर्विद्याधराधीशपदं प्राप्यानुजाश्च ते ॥ १८८ ॥
भवानेनाभिरुचितो जनस्यास्य मनःप्रभुः ।
पित्रे निवेदयास्येतत्स्वाधीना न हि कन्यकाः ॥ १८९ ।।
त्वत्संगमे गुरोराज्ञां प्राप्तुं गच्छाम्यहं वनम् ।
विनोदयेथा हृदयं त्वमिहैव क्षणान्तरम् ।। १९० ।।
ऊर्ध्वमन्दिरपाली च द्रष्टव्या नैव तु त्वया ।
इत्युक्त्वा प्रययो कान्ता लिम्पन्ती कान्तिभिर्मनभः ॥ १९१ ॥
कौतुकाकुलितः सोऽथ प्रविष्टो मन्दिरावलीम् ।
ददर्श योषितस्तिस्त्रः शयाना गतजीविताः ॥ १९२ ॥
पृथग्देशेषु पर्यङ्के स्वच्छचीवपरावृताः ।
सजीवा इव हारिण्यश्चित्रस्था इव निश्चलाः -१९३ ॥
पूर्वमंशुकमुद्घाट्य ददर्शैकां सुमध्यमाम् ।
जित्वा जगत्स्कृतिमुवा न्यस्तां चापलतामिव ।। १९४ ॥
स्वयं कन्दर्पगुरुणा प्रतिष्ठामप्रशंसिनीम् ।
अधिवास इव न्यस्तां शयने कान्तिदेवताम् ॥ १९६ ॥
ततः कनकलेखां तां परिज्ञाय महीपतेः ।
परोपकारिणः पुत्रीं प्रदध्यौ विस्मितः क्षणम् ।। १९६ ।।
विरहौर्वानलालोलप्रवासव्यसनाम्बुधौ ।
यत्कृतेऽहं निपतितः सैवैषा मन्मथौषधिः ॥ १९७ ॥
इन्द्रजालमिदं किंस्विदथ वा स्मरवञ्चना ।
ध्यात्वेति शक्तिदेवोऽथ क्रमेणान्यां ददर्श च ॥ १९८ ॥
तां दृष्टा विस्मयाविष्टो मन्दिरेभ्योऽवरुह्य सः ।


आसानुगात इति भवेत. तनाव कानुनलेखाख.