पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६. चतुर्दारिक-अशोकदत्ताख्याधिका ।]
१२७
बृहत्कथामज्जरी।

तं याचमानहेमान सा श्वश्रूः प्राह राक्षसी ।
त्रिघण्टनाम्नि हिमवच्छिखरेऽस्ति पतिर्मम ॥ १६२ ॥
लम्बजिह्व इति ख्यातस्तेन तत्प्राप्तमम्बुजम् ।
प्रभोः कपालविस्फोटनाझो राक्षसभूपतेः ॥ १५३ ।।
इति तद्वाक्यमाकर्ण्य नय मां राक्षसप्रभो ।
तस्य हेमाम्बुजसरो जगादेति द्विजात्मजः ॥ १५४ ॥
तथा विहायसा नीतस्ततस्तत्काञ्चनं सरः ।
जघान रक्षारक्षांसि स मारुतिरिवापरः ॥ १५५ ॥
स्वयं कपालस्फोटोऽथ निहताशेषराक्षसम्
तं ददर्श सरस्तीरे शापं दृष्ट्वैव सोऽत्यजत् ॥ १५६ ॥
शापमुक्तः स विज्ञाय भ्रातरं संमदाकुलः
भ्रातर्विजयदत्तोऽहमित्याह प्रणनाम च ॥ १६७ ।।
अभवं राक्षसपतेरह सेनापतिश्विरम् ।
गन्धवैर्निहते तस्मिन्नवापं तत्पदं ततः ॥ १८ ॥
अधुना मुक्तशापोऽहं श्रुत्वेत्यनुजभाषितम् ।
अशोकदत्तः स्वजनैः संगतः प्राप निर्वृतिम् ॥ १६९ ॥
प्रज्ञप्तिकौशिकाभिख्यो विद्याधरपतिस्ततः
तावभ्यवाधुवां पूर्व विद्याधरकुमारकौ ॥ १६० ॥
गालवस्य मुनेः कन्यां दृष्ट्वा कामवशं गतौ।
तच्छापान्मर्त्य॑जन्माद्य युवयोः क्षपितं च तत् ॥ १६१ ।।
गृह्णीतमधुना विद्यामित्युक्त्वा विततार सः ।
ततो विद्याधरपदं प्राप्य तौ सह बान्धवैः ॥ १६२ ।।
गोविन्दकूटनामानं दिव्यं व्योमगमं पुरम् ।
ननन्दतुस्त्वमप्येवं भ्रातः शङ्के श्रियः पदम् ॥ १६३ ॥
इत्यशोकदत्ताख्यायिका ॥ ६ ॥


'प्रशाब्धि क२. रक्षा रक्षोसि' ख, इ. 'चा' ख. ४. परिज्ञायर खा प्रशस्तिकौतुकाभिख्यो ख. ६. 'च व्योमग ख. ७. प्रातः खा.