पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२६
काव्यमाला ।

अशोकदत्तो जग्राह तस्याः पादस्य नूपुरम् ॥ १३९ ।।
सा त्यक्त्वा नूपुरं पायाद्बहुरत्न बिहायसा ।
द्विजात्मजस्तमादाय प्रययौ च नृपान्तिकम् ।। १४० ॥
तद्वीरचरितं ज्ञात्वा ददौ तस्मै महीपतिः ।
सुतां मदनलेखाख्यामनालेख्यामिव श्रियम् ॥ १४ ॥
कदाचिदथ तं दिव्यनूपुरं वीक्ष्य भूपतिः
तुल्योऽस्यान्यः कुतः प्राप्य इत्याहोत्कलिकाकुलः ॥ १४२ ।।
अभिप्रायं नरपतेर्विज्ञाय कृतनिश्चयः ।
श्मशानं नपुराहारी स पुनः प्रययौ द्विजः ॥ १४ ॥
विक्रीणानों महामासं मन्त्राकृष्टमहाशवः ।
गृहाणेत्युच्चया वाचा वचने श्रावयन्दिशः ॥ १४४।।
तत्र राक्षसकन्याभिः संगतः सत्त्वसागरः ।
तत्स्वामिनी समासाद्य प्रत्यभिज्ञानमाप्तवान् ॥ १.४५ ।।
ममैवासौ त्वया नीतः पुरा वीरेन्द्र नूपुरः ।
गृहाण रत्नरुचिरं द्वितीयमपि नूपुरम् ॥ १४६ ।।
इत्युक्त्वा नूपुरं तस्मै सा सुतां प्रददौ प्रियाम् ।
यत्पुरः कान्तिदारिद्याद्विनिद्रो निशि चन्द्रमाः ॥ १४७ ।।
विलासालंकृतमदां मंदालंकृतविभ्रमाम् ।
विभ्रमालंकृतानङ्गामनङ्गालंकृताकृतिम् ॥ १४ ॥
विद्युत्केशीसुतां प्राप्य स तां विद्युत्प्रभाभिधाम् ।
हेमाल नूपुरं तं च पुनः प्राप नृपान्तिकम् ॥ १४९ ॥
राजा प्रतापमुकुटो नूपुरप्राप्तिनन्दितः ।
कमलाकेलिकमलाकारं प्राप्यः तदम्बुजम् ॥ १६ ॥
राजा शंकरपूजायै ज्ञात्वान्यकमलार्थिताम् ।
अशोकदत्तः प्रययौ पुनर्नक्तंचरीं प्रति ॥ १५१ ॥


१ पाद सन्चरम् ख. २. चित्रराश्रा ख... कामिनी सख. ४. ' पुस ख. आकारा त्र. ७ तित्र पुनः प्रयास. राजा सत्कारपूर रासस