पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५. चतुर्दारिके-अशोकदत्ताख्यायिका।]
१२५
बृहत्कथामञ्जरी।

छायेव तस्थौ नृपतेरवस्थोचितसंनति ॥ १२७ ॥
अथ कालेन भूपाल शिवार्चायै विनिर्गतः।
दूरात्प्रदोषसंध्यायां शुश्राव विजने गिरम् ॥ १.२८ ।।
राजन्स्वल्पापराधोऽहं शत्रुप्रेरणया सकृत् ।
दण्डपालेन विक्षिप्तः शूले निर्घृणचेतसा ॥ ११९ ॥
दिनमद्य चतुर्थं मे शूलस्थस्यैव जीवतः ।
प्राणाः सुखेन निर्यान्ति नहि दुष्कर्मकारिणाम् ॥ १३० ॥
भृशं मां बाधते तृष्णा तां निवारय भूपते ।
श्रुत्वैव राजा कारुण्यादिदेशाग्रे स्थितं द्विजम् ॥ १३१ ॥
अशोकदत्तोऽप्यादिष्टः क्ष्माभुजा निशि धैर्यभूः ।
ययौ कलशमादाय श्मशानं भीरुघट्टनम् ॥ १३२ ।।
स तत्र शूलपोतस्य ददर्शाधःस्थितां वधूम् ।
दिव्याभरणरोचिष्णुप्रभां सिद्धिमिवात्मनः ॥ १३३ ॥
सा प्राह वल्लभोऽयं मे राज्ञा शूले समर्पितः ।
व्यथते चातिकृपणः पश्य प्राणान्न मुञ्चति ॥ १३४ ।।
अस्याहं मरणोद्युक्ता स्थितेऽहं बिजने निशि ।
तृषितो याचते वारि मामयं व्यथते मुहुः ॥ १३५ ।।
शूलपोतोद्भुतग्रीवं दैवान्नवमिवेश्वरम् ।
नास्मि प्रापयितुं शक्ता जलमेवमधःस्थिता ।। १३६ ॥
अशोकदत्तः श्रुत्वेति करुणाब्धिरुवाच ताम् ।
मातर्मे स्कन्धमारुह्य देह्यस्मै शीतलं जलम् ॥ १३७॥
श्रुत्वेति नतपृष्ठांसं सा पम्द्यामारुरोह तम् ।
प्रत्यग्रं निपतद्भूमौ रुधिरं च ददर्श सः
उन्नाम्य वदनं दृष्ट्वा भक्ष्यमाणं तथैव तम् ।


निहितः ख. २. अर्थानि वाति ख. ३. 'जुमरणोयुक्तास्थिताह' ख. 'पाययितुं' ख. ५. 'नवयुष ख. ६. 'उत्तानवदनो दृष्टा' ख.