पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२४
काव्यमाला ।

प्रदीप्ततरमाभाति वह्रौ रक्ताम्बुजोपमम् ।
श्रुत्वेति तनयं प्राह ब्राह्मणो वीक्ष्य तत्पुरः ।
येन तत्स्फुटनोद्गीर्णवसासिक्तमुखोऽभवत् ।। ११५ ॥
आस्वाद्यैवः समादाय तत्कपालसमाकुलः ।
पीत्वा वसां महाकायो बभूवातिभयंकरः ।। ११६ ।।
सोऽभूत्प्रकटदंष्ट्राख्यो विकटो निशि राक्षसः ।
यस्याट्टहासेन दिशश्चक्रन्दुः स्फुटिता इव ।। ११७ ॥
तसिन्वेगात्समाकृष्य पितरं हन्तुमुद्यते ।
मा कृथाः साहसमिति प्रादुरासीद्वचो द्विजः ॥ ११८ ॥
त्यक्त्वा जनकमाकाशं प्रययौ स्फोटकं जवात् ।
कपालस्फोटनामाथ समाहूतः स राक्षसैः ।। ११९ ।।
प्रातः सुतवियोगार्तिदह्यमानतनुर्द्विजः ।
सभार्यो विललापोच्चैः कारुण्याद्वीक्षितो जनैः ॥ १२० ॥
समुद्रदत्तनाम्नाथ वणिजा दुःखकर्शितः ।
समाश्वस्य गृहं नीत्वा कृतो निजधने विभुः ।। १२१ ॥
सरन्महामतिवचः पुत्रसंगमलालसः ।
स तस्थौ वणिजो गेहे मनोरथशवाकुलः ॥ १२२ ॥
अशोकदत्तः शस्त्रास्त्रकल्पविद्याविशारदः ।
द्वितीयोऽथ द्विजसुतः प्रख्यातो नगरेऽभवत् ।। १२३ ॥
अत्रान्तरे नरपतिः प्रतापमुकुटाभिधः ।
समायाते महामल्ले तद्युद्धाय जुहाव तम् ॥ १२ ॥
अशोकदत्तस्तं भूप पुरो बलवतां चरन् ।
दाक्षिणात्यं महामल्लं मायाविनमपातयत् ।। १२१ ॥
तत्कर्मतुष्टोऽथ नृपस्तं चक्रे भाजनं श्रियः ।
विचित्रकर्माभिनयैः किमलभ्यं महात्मभिः ॥ १२६ ॥
सेनानियुक्तः स सदा युक्तालायो दिवानिशम् ।


शामालावि स्व. ३. सेवाविदग्धः स तदा सुख.