पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६. चतुर्दारिके-अशोकदत्ताख्यायिका 1]center=बृहत्कथामञ्जरी ।
१२२
 

दुर्मिक्षोपहतस्त्यक्त्वा स कदाचिन्निजां पुरीम् ।
प्रययौ काशिनगरीं सपुत्रः सह भार्यया ॥ १०२ ॥
ततः प्रयागमासाद्य पुण्यं दृष्ट्वा महावटम् ।
कपालमालाभरणं सोऽपश्यद्यतिनं पुरः ॥ १०३ ।।
स पृष्टो ब्राह्मणं प्राह वियोगस्ते भविष्यति ।
क्षिप्रं विजयदत्तेन भविता च समागमः ॥ १०४ ॥
श्रुत्वेत्युवाच शर्वयो शून्यदेवालयान्तरे ।
सभार्यः ससुतो विप्रः सदूराध्वश्रमाकुलः ।। १०९ ॥
अशोकदत्तः सहसा ब्राह्मणी च निरन्तरम् ।
निद्रामवापतुः सर्वदुःखनिःसरणावधिम् ।। १०६ ।।
ततो विजयदत्तोऽभूद्भृशं शीतज्वरार्दितः ।
फुल्लोत्फुल्लतनुः क्षिप्रं जले मत्स्य इवाभितः ॥ १०७ ॥
गाढं पित्रावगूढोऽपि शीतं तत्याज नैव सः ।
यत्नात्स्नेहान्न तत्याज तथार्यमिव दुर्जनः ॥ १०८ ।।
ययाचे वह्निनेवासौ पितरं दीनया गिरा।
मध्ये स्मशानमालोक्य दूरादेव चितानलम् ॥ १०९ ॥
पुत्र वित्रासजनकश्चिताग्नि स्पर्शदूषकः ।
अमङ्गलो न सेव्योऽयमिति प्रोवाच तं पिता ॥ ११० ।।
दन्तवीणास्फुरद्वको रोमाञ्चोद्भुतविग्रहः ।
शीतज्वरार्तस्तं वह्निं पुनःपुनरयाचतः ॥ १.११ ।।
पुत्रस्नेहाभिभूतोऽथ समाहर्तुं चितानलम् ।
गोविन्दस्वामिनि गते दारकोऽप्यन्वयाद्रुतम् ।। ११२ ॥
समाप्य तापविकटां विकीर्णास्थिचितां चिताम् ।
आलिङ्गन्निव सावेगः शनैनिर्वृतिमाप्तवान् ॥ ११३ ॥
ततः प्रोवाच पितरं तातेदं परिवर्तुलम् ।
द्विजस्य सूनुः श्रुत्वेति काष्ठाग्रेण जघान तम् ॥ ११४ ॥


तई संख. २. 'फालोल्फालत ख. ३. 'त' ख.