पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३२
काव्यमाला ।

वणिम्वरः कलहकासादनात्प्राप्तजीवित्तः ।
मत्स्योऽप्यसावुत्पलकद्वीपबद्धो निपादकैः ॥ ९॥
धीवरैर्विनिकृत्तोऽय मत्स्यो दासपतेः पुरः ।
स विप्रो निर्ययौ जीवन्दुर्विज्ञेया विधेर्गतिः ॥ ९ ॥
घोरान्धकारनिर्मुक्तः शक्तिदेवोऽथ विस्मयात् ।
पृष्टो दासाधिपतिना प्राहागमनकारणम् ॥ १२ ॥
कनकाख्यां पुरीं द्रष्टुं भ्रान्तोऽस्मि पृथिवीमिमाम् ।
न सा दृष्टा श्रुता वापि ततः पृष्टो मया मुनिः ॥ ९३ ॥
स मामुवाच दासानामस्ति सत्यव्रतः पतिः ।
तं प्रच्छेति निशम्याहं संप्राप्तो मकराकरम् ॥ ९४ ।।
तत्र प्रवहणे भग्ने निगीर्णोऽहं जलौकसा ।
दैवाद्भुवामिमां प्राप्तः कर्मबन्धो हि नान्यथा ।। ९५ ।।
इत्याकर्ण्याब्रवीद्दासः कौतुकाकुलितो द्विजन् ।
सत्यवतोऽहमेवासौ न दृष्टा नगरी मया ॥ ९६ ।।
यत्नादन्विष्य वक्ष्यामि विश्रान्ति भज निर्वृतः ।।
इति तस्य गिरा तस्थौ तत्र रात्रिं द्विजाश्रमे ।। ९७ ॥
इति शक्तिदेवप्रवहणभङ्गकथा ॥ ४ ॥
ततस्तु संगतो दैवाच्चिराद्वीपान्तमाश्रितः
विज्ञातो मातुले येन भ्राता निजकथान्तरे ॥ ९८ ॥
स प्राह विष्णुदत्ताख्यः शक्तिदेवं मुदान्वितः ।
काकतालीययोगेन दिष्टया मे बन्धुसंगमः ॥ ९९ ॥
इत्युक्त्वा तत्कथां श्रुत्वा स विनिद्रः श्रमातुरम् ।
स समाश्वासयद्वीरं कथामकथयन्निशि ॥ १० ॥
 गोविन्दस्वामी नामाभूद्ब्राह्मणों यमुनातटे ।
विजयाशोकदत्ताख्यौ तस्य पुत्रौ बभूवतुः ॥ १० ॥


यन्वीर । , ४. दहित्यापधे स.