पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५. चतुर्दारिके-शक्तिदेवप्रवहण भनकथा।]
१२१
बृहत्कथामञ्जरी ।

स गच्छन्नाससादाब्धौ वणिजं द्वीपगामिनम् ।
समुद्रमत्स्यनामानं निधिनाथमिवापरम् ॥ ७७ ।।
आरुह्य तत्प्रवहणं सौहार्देन निषेव्य तम् ।
ददर्श पयसां राशिं गन्भीरावर्तभीषणम् ॥ ७८ ॥
ब्रह्माण्डं भण्डपस्फारस्फटिकस्तम्भविग्रमैः ।
उत्तुङ्गविपुलाभोगतरङ्गैर्लङ्घिताम्बरम् ॥ ७९ ॥
धनगर्जितविस्फूर्जन्मरुजध्वनितोर्जितम् ।
अताण्डवचलच्चण्डवीचिदोर्दण्डमण्डलैः ॥ ८ ॥
आसेव्यमानममितो पृथुपर्जन्यसंचयैः
मैनाकरक्षासंजातप्रणयैरिव भूधरैः ॥ ८१ ॥
संसारमिव दुष्पारमायासमिव दुःसहम् ।
मायाजालभिवामन्तं मूर्ख खलमिवोद्धतम् ॥ ४२ ॥
तत्र प्रवहणारूढः सोऽपश्यन्निखिला दिशः।
स्फारकल्लोलपटलीदुकूलवलिता इव ॥ ८३ ॥
अथोदतिष्ठव्द्योमश्रीः कालागुरुविशेषकः ।
मेघस्तमालमलिनबालसूकरविभ्रमः । ८४ ॥
यातः स वृद्धिं सहसा दुर्जनत्र्यसनोपमः ।
चक्रे लोकं निरालोकं विमोह इव मानवम् ॥ ८॥
ततस्तत्प्रभवोद्भूतवात्यावलयसंप्लवैः ।
ययौ जलधितां व्योम व्योमतां च महोदधिः ॥ १६॥
तस्मिस्तरङ्गसंघट्टस्फोटिताशेषदिक्तटे ।
उद्भूतप्रलयोद्भ्रान्तपुष्करावर्तकध्वनिः ।। ८७ ॥
ततस्तडिति साटोपत्रुटिताशेषबन्धनैः ।
अभज्यत प्रवहणं वणिजां हृदयैः सह ॥ १८ ॥
तस्मिन्निंगीर्ण मत्स्येन विशालवपुषा ततः ।
शक्तिदेवः परिपतन्गीर्णस्तूर्ण सरंहसा ॥ ८९ ॥


ससाण्डवित्तमुद्दण्डबीविदोर्दण्डमण्डलैः' न. २. प्रसर ' स. ३. 'मझे ख.