पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
काव्यमाला ।

कियन्तस्ते कियन्तस्ते पुत्राः सन्तीति तान्क्रमामात्
प्रच्छ भक्षितस्तेभ्यः किंवन्तश्चेति गण्यताम् ॥ १५ ॥
श्रुत्वेति तस्य वचनं गणयित्वा निजान्सुतान् ।
निर्विकारा वयमिति प्रययुर्लज्जिता द्विजाः ॥ १६ ॥
इत्यनालोक्य सद्भावं वदन्त्येके तथा परे
पशूनामिव यूथोऽयं गतानुगतिको जनः ।। ६७ ॥
इति हरस्वाम्याख्यायिका ।। ३ ।।
पितुः श्रुत्वेति वचनं न चचाल समीहितान् ।
वज्रलेपादपि दृढो मानिनीनां हि निश्चयः ।। ६८ ॥
अत्रान्तरे शक्तिदेवः प्रययौ दक्षिणां दिशम् ।
द्रष्टव्या काञ्चनपुरी मर्तव्यं चेति संपदा ॥ १९ ॥
तलो विन्ध्याटवीं प्राप्य तालहिन्तालमालिताम् ।
ददर्श सूर्यतपसं मुनि मुनितपोवने ॥ ७ ॥
पृष्टः क्व प्रस्थितोऽसीति मुनिना विगतकमः ।
गच्छामि काञ्चनपुरीं क्व च सास्तीत्यभाषत ।। ७१ ॥
प्रयासि नैव जानासि विचित्रं च तवेप्सितम् ।
अहं तात न जानामि चिरायुरपि तां पुरीम् ।। ७२ ॥
काम्पिल्लेऽस्ति मम भ्राता स्थितो दीर्घतपा मुनिः ।
अपि जाने स जानाति न चेदन्यो न विद्यते ॥ ७३ ।।
इति तस्य गिरा गत्वा काम्पिले मुनिसत्तम ।
पप्रच्छ तं स च प्राह न जानामीति. तां पुरीम् ॥ ४ ॥
दासराजोऽस्ति जलधावुत्पलद्वीपसंश्रयः ।
मन्ये सत्यव्रताख्यो ऽसौ वृद्धो जानाति तां पुरीम्
॥ ७९ ॥

श्रुत्वेति दीर्घतपसः शक्तिदेवो मुनेर्वचः ।
तूर्णमुत्पलकद्वीपं प्रतस्थे कृतनिश्चयः ॥ ७६


हैडकावार छ. ३. तल चेपित ४. 'लाइन' ख, भाडा स्थित दर्षितपा मुखिया रख-सुखकेऽयं पाठः