पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६. चतुर्दारिके-हरस्वाम्याख्यायिका ।]
११९
बृहत्कथामञ्जरी ।

इति भ्रमन्ति कूटेन धूर्ता वञ्चयितुं जनम् ।
कस्तेषां हि वशे धीमान्विश्वासं याति मायिनाम् ॥ ५३ ॥
इति शिवमाधवाख्यायिका ॥२॥
श्रुत्वेति वचनं पुत्र्याः प्राह शोकाकुलो नृपः ।
पुत्रि त्वया प्रतिज्ञाय संशये जनिता वयम् ॥ ५४ ॥
त्वां यौवनवतीमाह कन्यकैव सुमध्यमे
अप्रत्ययश्च लोकोऽयं न जाने किं भविष्यति ॥५५॥
अन्यं भर्तारमासाद्य कल्पिताश्चर्यवादिनः ।
नरास्त्यक्तस्वकर्माणो मोदन्ते साधुनिन्दया ॥ ५६ ॥
परापवादं संहृष्टा गुणलेशासहीष्णवः ।
लीलयोत्पादयन्त्येव मिथ्या दोषं सतां खलाः ॥ ५७ ॥
कुसुमाख्ये पुरे पूर्वं तपस्वी नियतेन्द्रियः ।
उवास ब्राह्मणवरो हरस्वामी गुणाधिकः ॥ ५८ ॥
ततः कदाचिज्जनिता मध्ये तद्गुणसंस्तवे ।
उवाच दुर्जनः कश्चिद्युष्माभिः किं तु न श्रुतम् ॥ ५९ ॥
बाला दुरात्मनानेन भक्षिता निखिलाः पुरे ।
इति तत्पप्रथे वाक्यमेकद्वित्रिचतुःक्रमात् ॥ ६० ॥
हा हरस्वामिना कृत्स्ना बालका भक्षिताः पुरे ।
प्रवाद इति सर्वत्र बभूव निरवग्रहः ॥ ६१ ॥
ब्रह्मोत्तरे जनपदे तद्विवासनसंगते ।
निजापवादनिर्विण्णो हरस्वामी सभां ययौ ॥ ६२॥
तमागतमभिप्रेक्ष्य सामर्षभयविह्वला ।
चकम्पे भक्षणभयात्कृतान्तालोकनादिव ॥ ६३ ॥
ततो व्यजिज्ञपत्सर्वान्हरस्वामी कृताञ्जलिः ।
दारका भक्षिताः कस्य मया ब्रूतां स संसदि ॥ ६४ ॥


१. 'पातिता' ख. २. नख.