पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
काव्यमाला ।

सेवमानो नरपतिं पुरोहितगृहस्थितः ।
स कदाचिदनिर्देश्य रोगान्मिथ्यातुरोऽभवत् ॥ ४० ॥
अस्वस्थमथ विज्ञाय दुःखाक्रान्तः पुरोहितः ।
पुनः पुनः समभ्येत्य तमपृच्छदनामयम् ॥ ४१ ॥
सोऽब्रवीद्राजयोग्यं मे विद्यते रत्नभूषणम् ।
पात्रमानय यस्मै तद्दत्त्वा यास्यामि सद्गतिम् ॥ ४२ ॥
यियासोः पञ्चतां पुंसः सुहृदां भिषजां पुरः ।
दीर्घान्धकारे पततो दानमेव परा गतिः ॥ ४३ ॥
इत्याकर्ण्य वचस्तस्य सरलात्मा पुरोहितः ।
आनिनाय बहून्विप्रान्स च तान्नाभ्यमन्यत ॥ ४४ ॥
ततः शिप्रातटस्थं तं जपव्रतपरायणम् ।
पुरोहितः शिवं गत्वा प्राह मित्रमनोगतम् ।
किं धनैरगृहस्थस्य मामेत्यामीलितेक्षणम् ॥ ४५ ॥
अथोपपत्तिवचनैस्तमभ्यर्च्य पुरोहितः ।
प्रियां पुत्रीं प्रदायास्मै प्रतिग्रहमदापयत् ॥ ४६ ॥
माधवस्तद्गिरा तस्मै काचकृत्रिमभूषणम्
प्रतिपाद्याभवत्स्वस्थो मूर्तां मायामिवात्मनः ॥ ४७ ॥
विक्रीणानन्ततो ज्ञात्वा प्राह जामातरं शिवम् ।
पुरोहितो न कालेऽस्मिन्योग्यस्ते रत्नविक्रयः ॥ ४८ ॥
गृहाण मे धनं सर्वं मय्येवार्पय भूषणम् ।
इत्युक्त्वा तौ परावृत्तिं धनलेखं न चक्रतुः ॥ ४९ ॥
शिवस्तद्धनमादाय माधवेन सहानिशम् ।
प्रमोदं प्राप्य संभोगसुधासंसिक्तमानसः ॥ ५० ॥
पुरोहितोऽपि कालेन क्रीतकृत्रिमभूषणः ।
जितः स्वहस्तलेखेन विवादे भूपतेः पुरः ॥ ५१ ॥
त्वया व्याजादिदं दत्तमिति पृष्टः सभासदैः ।
माधवोऽप्याह दत्तं यत्तत्फलं समुपेष्यति ॥ ५२ ॥