पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५. चतुर्दारिके-शिवमाधवाख्यायिका ।]
११७
बृहत्कथामञ्जरी ।

असकृद्वहुजल्पोऽयमिति मिथ्यावचः क्रुधा ।
स तया भ्रुकुटिभ्रान्त्या चेटिकाभिस्तिरस्कृतः ॥ २७ ॥
स निरस्तोऽवमानाग्निप्लुष्टो दुर्गतिपीडितः ।
कनकाख्यां पुरीं द्रष्टुं प्रययौ कृतनिश्चयः ॥ २८ ॥
तं समुत्सारितं कृत्वा चिन्तासंतापितो नृपः ।
शुशोच तनयां पश्यन्फुल्लयौवनशालिनीम् ॥ २९ ॥
अवाप्तकन्यकारत्नं पुरोहितमनुस्थितम् ।
यत्कौसलेन नगरे धनवान्को न वञ्चितः ॥ ३१ ॥
ततो महाधनं ज्ञात्वा भूमिपालपुरोहितम् ।
निर्जरे रत्नमालेव कथं दुःखा [च] मे सुता ॥ ३२ ॥
किं निरस्तस्त्वया पुत्रि स दृष्टा येन सा पुरी ।
पितुः श्रुत्वेति सा प्राह कन्या कमललोचना ॥ ३३ ॥
धूर्तः स कितवो देव न तत्त्वं किंचिदुक्तवान् ।
साधुभ्रान्त्या हि मुष्णन्ति धूर्ताः सरलवञ्चकाः ॥ ३४ ॥
पुरा रत्नपुरे धूर्तावभूतां शिवमाधवौ ।
उज्जयिन्यां पृथग्वेषौ जग्मतुर्वञ्चनोद्यतौ ॥ ३५ ॥
पूर्वं शिवः समभ्येत्य स्वैरं दम्भव्रतं श्रितः ।
शिप्रातीरे जपरतस्तस्थौ विश्वासयञ्जनम् ॥ १६ ॥
विभृष्टराजवंशेन धूर्तश्च स हि माधवः
तं पुरोहितमभ्येत्य दत्तोपायनमभ्यधात् ॥ ३७ ॥
त्वया सौहार्दमाधाय सेवे राजानमुत्तमम् ।
इति शंकरदत्ताख्यः श्रुत्वा वाचं पुरोहितः ॥ ३८ ॥
अहं स्वदेशविभ्रष्टो राजपुत्रो महाधनः
तथेत्युक्त्वास्य विदधे राजसिंहेन संगमम् ॥ ३९ ॥


१. इदं त्रुटिचिहं पुस्तकद्वयेऽपि, २. स्त्र-पुस्तकेऽधिका पाठ उपलभ्यते।