पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
नरवाहनजन्मनि-जीमूतवाहनाख्यायिका ।
१०९
बृहत्कथामञ्जरी ।

शीतांशुशुश्रवसनां तारहारकरोज्वलाम् ।
तुषारशिखरीन्द्रस्य प्रत्यक्षामिव देवताम् ॥ ७४॥
अयाचं तामहं कान्तां पूर्वं रचितसंविदम् ।
शबरेण कुरङ्गाक्षीमचिरेण मनोवतीम् ॥ ७५ ॥
तामादाय ततः कान्तां गत्वा निजपुरीं शनैः ।
अभजं शबरोपेतः कायं विभ्रमवान्स्त्रियम् ॥ ७६ ।
ततः स सिंहः सहसा भूत्वा विद्याधराकृतिः ।
उवाच नष्टशापो में दिष्ट्या युष्मत्समागमात् ॥ ७७ ॥
अहं चित्राङ्गदो नाम जवादुल्लङ्घ्य नादरम् ।
तच्छापात्सिंहतां यातः पुरा विद्याधराधिपः ॥ ७८॥
इयं मनोवती नाम तनया मम सुन्दरी ।
तव भार्या चिरं स्पृष्टा धृता केसरिणा मया ॥ ७९ ॥
यदा तत्र सुतां कश्चित्परिणेष्यति मानुषः ।
तदा विमोक्षसे शापान्मामुवाचेति नादरः ॥ ८० ॥
तदेतन्मुक्तशापोऽहं गच्छामीत्यभिधाय सः ।
प्रययौ भूषणमणिच्छायाशबलिताम्बरः ॥ ८१ ॥
[ततोऽहमपि कालेन भुक्त्वा मर्त्यसुखश्रियम् ।
हिरण्यदत्तमासाद्य पुत्रं वंशविवर्धनम् ॥ ८२ ॥]
मनोवतीसखो गत्वा पुण्यं कालंजरं गिरम्
शबरानुगतो ध्यात्या शंकर तनुमत्यजम् ॥ ८३ ॥
जीमूतवाहनः सोऽहं कन्या मलयवत्यपि ।
प्रिया मनोवती सैव शबरस्त्वं स में सुहृत् ।। ८४ ॥
इति मित्रावसुः श्रुत्वा विद्याधरपतेर्वचः ।
पित्रे निवेद्य वृत्तान्तं विवाहं विदधे स्वसुः॥ ८५ ॥
अवाप्य सिद्धतनयां मानसोल्लासचन्द्रिकाम् ।
लावण्यविभ्रममहीं मनोरथशतोचिताम् ।। ८६ ॥


एतत्कोवान्तर्गतपाठः क-पुस्तके अद्धितः