पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४. नरवाहनजन्मनि-जीमूतवाहनाख्यायिका ।
१०१
बृहत्कथामञ्जरी।

बन्धे निधाय बहुना द्रविणेन तदुत्तमम् । क्रीत्वा तुरङ्गान्राजानं परमेश्वरमभ्यगा(या)त् ॥ २६ ।। तमुपाश्रित्य बलिनं हत्वा शत्रुगणान्युधि । पितृपैतामहं राज्यमवाप विमलद्युतिः ॥ २७ ॥ ततोऽन्यां राजतनयां परिणीय कुलोचिताम् । वणिजः प्राहिणोत्क्षिप्रं ताटङ्कं दुहितुश्च्युतम् ॥ २८ ॥ तदालोक्येव सा भर्त्रा प्रहितं रत्नभूषितम् । स्मृत्वा दुर्विनयं भीता सहसा पञ्चतां गता। इति विप्रोषितं स्त्रीभिः शीलं दुःखेन रक्ष्यते ॥ २९ ॥ इति देवदत्ताख्यायिका ॥ १ ॥ अहं शंकरदेवस्य जाया देवि द्विजन्मनः । ब्राह्मणी पिङ्गला नाम दैवाद्वैधव्यमागता ॥ ३० ॥ हृते कुलाग्रहारे मे सगोत्रैर्बलवत्तरैः । देवरे व विदेशस्थे चिरं शान्तिकराभिधे ॥ ३१ ॥ पुत्राविमौ समादाय यातास्मि शरणं नृपम् । भर्तारं तव संतप्तजनतासुरपादपम् ॥ ३२ ॥ श्रुत्वैव राजमहिषी तद्वृत्तान्तं कृपावती । पुरोहितं शान्तिकरं तस्या विज्ञाय देवरम् ॥ ३३ ॥ संमानमधिकं चक्रे हेमरत्नाम्बरप्रदा। सापि तं देवरं प्राप्य भर्तृदुःखं शशंस तम् ॥ ३४ ॥ संपूजिता देवरेण राज्ञा देव्या च सादरम् । सा तस्थौ ब्राह्मणी तत्र बालसंवर्धनव्रता ॥ ३६॥ इति ब्राह्मणीसमागमकथा ॥ २ ॥ कदाचिदथ दृष्ट्वैव देवी वातायनस्थिता !

कुम्भकार्याः सुतान्पञ्च प्रदध्यौ दुःखिता क्षणम् ॥ ३६॥


१. जयदः ख... 'दत्तस्य' ख. ३. हते' ख. ४. संप्राप्त ख.. ५. 'दास्याः ख.